पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-४]
२३७
इन्द्रादिभिः सममेत्य गङ्गया कुमारस्तनपानम्

एकादशः सर्गः ।


 अभ्यर्थ्यमाना विबुधैः समग्रैः प्रव्हैः सुरेन्द्रप्रमुखैरुपेत्य ।
 तं पाययामास सुधातिपूर्णं सुरापगा स्वं स्तनमाशु मूर्ता ॥१॥

 अभ्यर्थेति ॥ सुरेन्द्रप्रमुखैरिन्द्रादिभिः समग्रैः समस्तैर्विबुधैर्देवैरुपेत्य समी- पमागत्य प्रव्हैर्नम्रैः सद्भिरभ्यर्थ्यमाना याच्यमाना सुरापगा मन्दाकिनी । आशु शीघ्रं मूर्ता मूर्तिमती सती । तं कुमारं सुधया दुग्धामृतेनातिपूर्णं बहुभृतं स्वमा- त्मीयं स्तनं पाययामास पानं कारितवती । सर्गेऽस्मिन्वृत्तमुपजातिः ॥ १ ॥

 पिबन्स तस्याः स्तनयोः सुधौघं क्षणंक्षणं साधु समेधमानः ।
 प्रापाकृतिं कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः ॥२॥

 पिबन्निति ॥ स कुमारस्तस्या मन्दकिन्याः स्तनयोः संबन्धिनं सुधौघं दुग्धामृतसमूहं पिबन् अत एव क्षणंक्षणं प्रतिक्षणं साधु यथा स्यात्तथा समेधमानः सम्यग्वर्धमानः षड्भिः कृत्तिकाभिरेत्य निषेव्यमाणः श्रियमाणश्च सन् । कामपि लोकोत्तरामाकृतिं प्रापाप्तवान् । 'खलु' वाक्यालंकारे । 'खलु स्याद्वाक्यभूषायाम्' इति विश्वः ॥ २ ॥

 भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम् ।
 तं नन्दनं दिव्यमुपात्तुमासीत्परस्परं प्रौढतरो विवादः ॥३॥

 भागीरथीति ॥ आनन्दबाष्पैराकुललोचनानां व्याप्तनेत्राणाम् । पावकश्च कृत्तिकाश्च पावककृत्तिकाः । भागीरथ्या गङ्गया सहिता याः पावककृत्तिकास्तासां संबन्धि दिव्यं लोकोत्तरस्वरूपं तं नन्दनं पुत्रमुपात्तुं ग्रहीतुं परस्परमन्योन्यं प्रौढतरो- ऽतिशयितो विवादः कलह आसीत् । 'ममायं ममायम्' इति प्रवादपूर्वकः कलि- र्बभूवेत्यर्थः ॥ ३॥

 अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः।
 नभो विमानेन विगाहमानो मनोतिवेगेन जगाम तत्र ॥४॥

पाठा०-१ अभ्यर्थमाना. २ सुधाभिपूर्णम्. ३ स्वर्गापगा. ४ स्वस्तनम्.

५ धात्री. ६ एषः.