पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ कुमारसंभव महाशिवपुराणयोः जानामि दुर्लभं वस्तु कथं प्राप्यं मया भवेत् । तथापि मनऔत्सुक्यात्तप्यतेऽद्य तपो मया । ब्राह्मण उवाच- अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे । चतुष्कपुष्पप्रकरावकीर्णयोः एतावत्कालपर्यन्तं ममेच्छा महती ह्यभूत् । किं वस्तु कांक्षती देवी कुरुते सुमहत्तपः । तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपङ्कजा परोऽपि को नाम तवानुमन्यते । इतो गच्छाम्यहं स्थानाद्यथेच्छति तथा कुरु । इत्युक्त्वा वचनं तस्य यावद्द्वन्तुमियेष सः । तावच पार्वती देवी प्रणम्योवाच तं द्विजम् | पार्वत्युवाच - किं गमिष्यसि विप्रेन्द्र ! स्थितो भव हितं वद । द्विजोवाच- यदि श्रोतुमना देवि ! मां स्थापयसि भक्तितः । वदामि तत्त्वं सत्सर्व येन ते वयुनं भवेत् । जानाम्यहं महादेवं सर्वथा गुरुधर्मतः । वृषध्वजो महादेवो भस्मदिग्धो जटाधरः | व्याघ्रचर्मांबरधरः संवीतो गजकृत्तिना । कपालधारी सौंघैः सर्वगात्रेषु वेष्टितः । विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो बिभीषणः । अव्यक्तजन्मा सततं गृहभोगविवर्जितः । अलक्तकाङ्कानि पदानि पादयो- विकीर्णकेशास परतभूमिपु अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति । इयं च तेऽन्या पुरतो बिडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति । वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि मृग्यते अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमा मुक्तविवाहकौतुकः । करेण शंभोवलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् । त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः । वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च तदस्ति किं व्यस्तमपि त्रिलोचने । दिगम्बरो दशभुजो भूतप्रेतान्वितः सदा । क्व त्वं कमलपत्राक्षी कासौ वै त्रिलोचनः । शशांकवदना त्वं च पञ्चवक्त्रः शिवः स्मृतः । चंदनं च त्वदीयांगे चिताभम्म शिवस्य च । क्व दुकूलं त्वदीयं वै शांकरं व गजाजिनम् । व भूषणानि दिव्यानि व सर्पाः शङ्करस्य च । भवल्याश्व शिवस्यैव न युक्तं रूपमुत्तमम् । यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः | वाहनं च बलीवर्दः सामग्री कापि तस्य न । सहायाश्च पिशाचा हि विषं कंठे हि दृश्यते ।