पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भ: ब्रह्मोवाच - इति पृष्टा तदा तेन सखीं प्रेरयताम्बिका । तन्मुखेनैव तत्सर्वं कथयामास सुव्रता । तया च प्रेरिता तत्र पार्वत्या विजयाभिधा | प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत् । २१ संख्युवाच - सखी तदीया तमुवाच वर्णिनं शृणु साधो ! प्रवक्ष्यामि पार्वतीचरितं परम् । निबोध साधो ! तव चेत्कुतूहलम् | हेतुं च तपसः सर्वं यदि त्वं श्रोतुमिच्छसि । यदर्थमम्भोजमिवोष्णवारणं ख्याता } कृतं तपःसाधनमेतया वपुः । इयं महेन्द्रप्रभृतीनधिश्रिय- चतुर्दिगीशानवमत्य मानिनी । अरूपहार्य मदनस्य निग्रहा- त्पिनाकपाणिं पतिमाप्तुमिच्छति । यथा श्रुतं वेदविदांवर ! त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते । अथाह वर्णी विदितो महेश्वर- स्तदर्थिनी त्वं पुनरेव वर्तसे । सखी मे गिरिराजस्य सुतेयं हिमभूभृतः । पार्वतीनाम्ना सा कालीति च मेनया व ऊढेयं न च केनापि न वांछति शिवात्परम् | हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च । पतिं पिनाकपाणि वै प्राप्तुमिच्छति पार्वती । मत्सखी चादराद्देशात्तपस्तपति दारुणम् । मनोरथं कुतस्तस्या न फलिष्यति तापस ! | यत्ते पृष्टं द्विजश्रेष्ट ! मत्सख्या मनसीप्सितम् । मयाख्यातं च तत्प्रीया किमन्यच्छ्रोतुमिच्छसि ? जटिल उवाच- सख्येदं कथितं तत्र परिहासोऽनुमीयते । यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम् । ब्रह्मोवाच- इत्युक्ते च तदा तेन जटिलेन द्विजन्मना । उवाच पार्वती देवी स्वमुखेनैव तं द्विजम् । पार्वत्युवाच - शृणु द्विजेन्द्र जटिल ! मद्वृत्तं निखिलं खलु । सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा | मनसा वचसा साक्षात्कर्मणा यतिभावतः । सत्यं ब्रवीमि नोऽसत्यं वृतो वै शङ्करो मया ।