पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारसंभव - महाशिवपुराणयोः २० विवेश कश्विजटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा । परीक्षाच्छद्मना शम्भुद्रष्टुं तां तुष्टमानसः । जाटिलं रूपमास्थाय स ययौ पार्वतीवनम् । आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् । अपूजयच्छिवा देवी सर्वपूजोपहारकैः । सुसत्कृतं संविधाभिः पूजितं परया मुद्रा | पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात् । पार्वत्युवाच - ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ? तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती । भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः । विधिप्रयुक्त परिगृह्य सक्रियां परिश्रमं नाम विनीय च क्षणम् । इदं वनं भासयसे वद वेदविदां वर ! । अहमिच्छाभिगामी च वृद्धो विप्रतनुः सुधीः । तपस्वी सुखदोऽन्येषामुपकारी न संशयः । का त्वं कस्यासि तनया किमर्थं विजने वने ? तपश्चरसि दुर्धर्ष मुनिभिः प्रपदैरपि । उमां स पश्यनृजनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः । अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते । अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् । कुले प्रसूतिः प्रथमस्य वेधस- स्त्रिलोक सौन्दर्य मिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वय- स्तपः फलं स्यात्किमतः परं वद । किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् वद प्रदोषे स्फुटचन्द्र तारका विभावरी यद्यरुणाय कल्पते । इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् अथो वयस्यां परिपार्श्ववर्तिनी विवर्तितानञ्जननेत्रमैक्षत । न बाला न च वृद्धासि तरुणी भासि शोभना । किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ? एतामु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे । पार्वत्युवाच - नाहं वेदप्रसूर्विप्र ! न लक्ष्मीच सरस्वती । अहं हिमाचलसुता सांप्रतं नाम पार्वती । जटिल उवाच- किमिच्छसि वरं देवि ! प्रष्टुमिच्छाभ्यतः परम् । | त्वय्येव तदसौ देवि ! फलं सर्वं प्रदृश्यते । परार्थे च तपश्चद्वै तिष्ठेत्तु तप एव तत् । रत्नं हस्ते समादाय हित्वा काचस्तु संचितः । ईदृशं तव सौन्दर्य कथं व्यर्थीकृतं त्वया ? । हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया । तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः । तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमवानुयाम् ।