पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भ: तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे । शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभा मनन्यदृष्टिः सवितारमैक्षत । तथातितप्तं सवितुर्गभस्तिभि मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् । अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतंत्र रश्मयः । बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्त साधनः । निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवा सतत्परा | परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती । स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः । मृणालिकापेलवमेवमादिभि- तैः स्वमङ्गं ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा | अथाजिनाषाढघरः प्रगल्भवा- ज्ज्वलन्निव ब्रह्ममयेन तेजसा । १९ दुःखं च विविधं तत्र गणितं न तथा गतम् | केवलं मन आधाय शिवे सासीस्थिता मुने ! ततः पर्णान्यपि शिवा निरम्य हिमवत्सुता | निराहाराऽभवदेवी तपश्चरण संरता | अधोमुखी निर्विकारा जटावल्कलधारिणी । तथा तथा तपस्त हुँ मुनीनामपि दुष्करम् । आहारे व्यक्तपर्णाऽभूयस्माद्धिमवतः सुता । तेन देवैरपर्णेति कथिता नामतः शिवा । स्मृत्वा च पुरुषास्तत्र परमं विम्मयं गताः । तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः । धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मतः | श्रृणु शैलसुते देवि ! किमर्थं तप्यते तपः ? इच्छसि त्वं मुरं कं च किं फलं तद्वदाधुना | ब्रह्मोवाच- गतेषु तेषु मुनिषु स्वं लोकं शङ्करः स्वयम् | परीक्षितुं तपो देव्या ऐच्छत्सृतिकरः प्रभुः ।