पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ कुमारसंभव महाशिवपुराणयोः ब्रह्मोवाच - इत्याकर्ण्य वचः पुत्र्या मेना दुःखमुपागता । सोपाहूय तदा पुत्रीमुवाच विकला सती । मेनोवाच - - निशम्य चैनां तपसे कृतोद्यमां सुता गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् । मनीषिताः सन्ति गृहेषु देवता- स्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः | इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुयमात् क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुख प्रतीपयेत् । अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चाप्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिमत् प्रजासु पश्चात्प्रथितं तदाख्यया दुःखितासि शिवे पुत्रि ! तपस्नु॑ पु॒रा यदि तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ! | कुत्र यासि तपः कर्तुं देवाः संति गृहे मम । तीर्थानि च समस्तानि क्षेत्राणि विविधानि च । शरीरं कोमलं वत्से ! तपस्तु कठिनं महत् । एतस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्ब्रज | स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी । तम्मात्त्वं पुत्रि ! मा कार्षीस्तपोर्थ गमनं प्रति । इत्येवं बहुधा पुत्री तन्मात्रा विनिवारिता | संवेदे न मुखं किंचिद्विनाराध्य महेश्वरम् | मातुराज्ञां च संप्राप्य सुव्रता मुनिसत्तम ! | ततः स्त्रांते सुखं लेभे पार्वती स्मृतशंकरा | मातरं पितरं साथ प्रणिपत्य मुदा शिवा । । | सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता । हित्वा मतान्यनेकानि वस्त्राणि विविधानि च । जगाम गौरीशिखरं शिखण्डिमत् । वल्कलानि धृतान्याशु मौंजीं बद्ध्वा तु शोभनाम् । विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेध विशीर्णसंहान । यदा फलं पूर्वतपः समाधिना न तावता लभ्यममंस्त काङ्क्षितम् हित्वा हार तथा चर्म मृगस्य परं धृतम् । जगाम तपसे तत्र गङ्गावतरणं प्रति । शम्भुना कुर्वता ध्यानं यत्र दग्धो मनोभवः । गङ्गावतरणो नाम प्रस्थो हिमवतः स च । वातश्चैव तथा शीतवृष्टिश्च विविधा तथा । । दुःसहोऽपि तथा धर्मस्तया सेहे सुचित्तया ।