पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भः अयि जीवितनाथ ! जीवसी- त्यभिधायोत्थितया तया पुरः दशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् । अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी । विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् । इत्थं रतेः किमपि भूतमदृश्यरूपं एतस्मिन्नंतरे तत्र देवाः शक्रादयोऽखिलाः । रतिमूचुः समाश्वास्य संम्मरन्तो महेश्वरम् | १७ हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा । मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाञ्च कुसुमायुधबन्धुरेना- देवा ऊचुः - माश्वासयन्सुचरितार्थपदैर्वचोभिः । अथ मदनवधूरुपलवान्तं व्यसनकृशा परिपालयांबभूव । शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् । तथा समक्षं दहता मनोभवं पिनाकिना भनमनोरथा सती । निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता इयेष सा कर्तुमवन्ध्यरूपता समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः । 2 Fo Ho Uo किंचिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भूयं त्यज । जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम् । अन्तर्हित स्मरे दग्ध्वा हरे तद्विरहाच्छिवा विकलाभू भृशं सा वै लेभे शर्म न कुत्रचित् । ब्रह्मोवाच - त्वयि देवमुने ! याते पार्वती हृष्टमानसा | तपःसाध्यं हरं मेने तपोर्थं मन आदधे । निनिंद च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् । सखीभिर्वाधिता चापि न बुबोध गिरींद्रजा | तिष्ठंति च सखीमध्ये न किंचित्सुखमाप ह | । धिक्म्वरूपं मदीयं च तथा जन्म च कर्म च । इति ब्रुवंती सततं मरंती हरचेष्टितम् । सुखं न लेभे किंचिद्वाऽब्रवीच्छिव शिवेति च । पार्वत्युवाच - मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् । अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ।