पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः ।

कुमारसंभवम्

सी ता रा म क वि कृ त या

संजीविन्या समेतम्

अष्टमः सर्गः ।

 शिरसा शकलं शशाङ्कमूर्तेर्भसितं विभ्रतमङ्गकेन भूरि।
 गरलं च गलेन चिन्तयामो हरमर्धाङ्गहराद्रिराजकन्याम् ॥

  टीका सप्तसु मल्लिनाथकृतिना संजीविनीसंज्ञिका
   या सर्गेषु कुमारसंभवमहाकाव्यस्य चक्रे पुरा।
  सैवैतर्ह्यवशिष्टदिक्प्रमिततत्सर्गेषु विद्वन्मुदे
   सीतारामकवीश्वरेण हि यथाप्रज्ञं समापूर्यते ॥

टिप्प०-1 मल्लिनाथीयमग्रिमाष्टमसर्गस्य व्याखानं सीतारामकविसमादृतपाठाद्विभिन्न मूलपाठवत्त्वाच्च ग्रन्थान्ते टीकानुगुणमूलेन सर्ग संयोजितमस्ति । मल्लिनाथः कुमारसंभवकाव्यस्य सप्तमसर्गे यावदेव व्याख्यानमररचदिति सीतारामकव्युक्त्यैतया सुस्फुटमनुमीयते, परं त्वष्टमसर्गटीकापि मलिनाथीया ह्येतद्ग्रन्थान्ते संयोजिता यत्रतत्र त्रुटि बहुल वरीवर्तते; तत इयमारेका संभवति-किमिदमष्टमसर्गव्याख्यानं मल्लिनाथीयमन्यकर्तृकं वा? अपि चेन्मल्लिनाथीयं तर्हि सीतागमादिटीकाकृद्भिः किं तदनुपलब्धमामीदिति च । भट्टनारायण-नाथादीनामपि टीका त्वष्टमसर्गावधि लभ्यते, अत: कालिदासप्रणीतं कुमारसंभव-

मष्टममर्गपरिमितमेवेत्यवांचीनैरनुमन्यते । एतन्मतादरणं हि जिज्ञासा संभवति-को नाम रचयिताऽस्याग्रिमग्रन्थस्य, कथं वा विना कुमारोत्पत्तिवर्णनेन 'कुमारसंभवम्' इति कविकुलालङ्कारेणास्यानन्वर्थाभिधानकरणे हेतुरिति । सप्तसर्गान्तं कुमारसंभवमिति मतं तु 'नातिस्वल्पा 'नातिदीर्घाः सर्गा अष्टाधिका इह ' (सा. द. ६।३२० ) इत्यष्टसर्गान्यूनत्वलक्षितमहाकाव्यलक्षणाव्याप्तिप्रसंगात् 'कुमारसंभवमहाकाव्यस्य' इत्युक्त्या व्याहतमेव भवेत् ।


१२ कु. सं०