पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
[ सर्गः ७
कुमारसंभवे

 अथेति ॥ अथेन्दुमौलिरीश्वरस्तान्विबुधगणान्विसृज्य क्षितिधरपतिकन्यां पार्वतीं करेणाददानः कनककलशयुक्तं मङ्गलार्थमन्तर्निहितहेममयपूर्णकुम्भं भक्तयः पुष्पादिरचनास्तासां शोभया सनाथम् , सहितमित्यर्थः । क्षितिविरचितशय्यं क्षितौ विरचिता स्थण्डिले कल्पिता शय्या तल्पं यस्मिंस्तत्तथोक्तं कौतुकागारमागाच्छय्यागृहं जगाम। भत्राश्वलायनः (गृह्य. ११८।१०)-'अत ऊर्ध्वमक्षारालवणाशिनावधःशायिनौ ब्रह्मचारिणो स्याताम्' इति । अत ऊर्ध्वं विवाहादूर्ध्वम् , आ त्रिरात्रादिति शेषः । 'त्रिरात्रं द्वादशरात्रं वा' (याज्ञ० प्रा० १।८) इति वचनात् । तथा कामशास्त्रेऽपि-'अथ परिणयरात्रौ प्रक्रमेन्नैव किंचित्तिसृषु च रजनीषु स्तब्धभावा दुनोति । त्रिदिनमिह न भिन्द्याद्ब्रह्मचर्यं न चास्या हृदयमननुरुध्य स्वेच्छया नर्म कुर्यात् ॥' इति ॥ ९४ ॥

  नवपरिणयलज्जभूपणां तत्र गौरीं
   वदनमपहरन्तीं तत्कृताक्षेपमीशः।
  अपि शयनसखीभ्यो दत्तवाचं कथंचि-
   त्प्रमथमुखविकारैर्हासयामास गूढम् ॥ ९५ ।।

 नवेति ॥ तत्र कौतुकागार ईश ईश्वरो नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव तेनेश्वरेण कृताक्षेपं कृताकर्षणम् , उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वन्तीम् । अयं लज्जानुभावः । अनुभावान्तरमाह-शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपि, नर्मसहचरीभ्योऽपीत्यर्थः। कथंचित्कृच्छ्रेण दत्तवाचं दत्तोत्तरां गौरीं मथा भृङ्गिरिटिप्रभृतयो हास्यरसादिदेवताः पशुपतेः पारिषदाः। यथाह भरतः-'शृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः' इति । 'प्रमथाः स्युः पारिषदाः' इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैर्गूढमप्रकाशं हासयामास, हासाद्यपायैर्लज्जामपाकर्तुं प्रवृत्त इत्यर्थः । यथाह गोनर्दः–'हासेन मधुना नर्मवचसा लजितां प्रियाम् । विलुप्तलज्जां कुर्वीत निपुणैश्च सखीजनैः ॥' इति ॥ ९५ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
उमापरिणयो नाम सप्तमः सर्गः ।