पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
[ सर्गः ८
कुमारसंभवे

 नवपरिणीतगिरिजारहाकेलिमपि विवर्णयिषुस्तत्रभवान्कालिदासोऽष्टमं सर्गमारभते--

 पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति ।
 भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं वपुः ॥१॥

 पाणिपीडनविधेरिति ॥ पाणिपीडनं नाम षोडशविधेषु संस्कारेषु कश्चित्संस्कारविशेषः । पीडयति यस्मिन्निति पीडनम् । 'करणाधिकरणयोश्च' (पा.३।३।११७) इति ल्युट् । पाणेः करतलस्य पीडनं ग्रहणम् , विवाह इत्यर्थः । पाणेरिति कृद्योगलक्षणा कर्मणि षष्टी, तस्य विधेर्विधानात् । 'विधिर्विधाने दैवेच' इत्यमरः । अनन्तरं पश्चात् । भावसाध्वसयोः कामेच्छातिभययोः परिग्रहात् , परिग्रहं ग्रहणं कृत्वेत्यर्थः । ल्यब्लोपे पञ्चमी। मुग्धत्वादुभे अप्यवलम्ब्येति भावः। 'भावः स्वभावेऽभिप्राये चेच्छासत्तात्मजन्मसु' इति विश्वः । स्थिताया इति शेषः। इयं च मुग्धाभेदो नवोढा। तदुक्तं भानुमित्रैः-'लज्जाभयपराधीनरतिर्नवोढा' इति । शैलराजस्य हिमालयस्य दुहितुः कन्यायाः पार्वत्या वपुरङ्गम् । हरं शिवं प्रति, लक्षयित्वेत्यर्थः । 'लक्षणेस्थं- (पा.१।४।९०) इति प्रतेः कर्मप्रवचनीयसंज्ञा । तद्योगे 'कर्मप्रवचनीययुक्ते-'(पा.२।३।८) इति द्वितीया। कामे यद्दोहदमभिलाषः, इच्छेति यावत् । 'अथ दोहदम् । इच्छा काङ्क्षा' इत्यमरः । कामविषयकोऽभिलाष इत्यर्थः । तेन निमित्तेन मनोहरं रुचिकरमभूत् , अतिमनोहराण्यपि कामिनीवपुंषि स्वकामेच्छयैव रोचकानि भवन्तीति भावः । सर्गेऽस्मिन् रथोद्धतावृत्तम् । 'रानराविह रथोद्धता लगौ' इति लक्षणात् । रसश्च प्रायः संभोगशृङ्गार एव ॥ १॥

 इदानीं लक्षणरीत्या नवोढात्वमेव दशभिः प्रपञ्चयति-

 व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
 सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥२॥

 व्याहृतेत्यादि ॥ सा पार्वती व्याहृता प्रियेण पृष्टा सती प्रतिवचः प्रत्युत्तरं न संदधे, न दत्तवतीत्यर्थः । तथावलम्बितं करेण धृतमंशुकं वस्त्रं यस्यास्तथोक्ता सती गन्तुमैच्छत् । तथा पराङ्मुखी परिवर्तितवदना सती शयनं पर्यङ्कं सेवते

पाठा०-१ दौहृदसुखं मनोहरम्.