पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भ: आसीनमासचशरीरपात- स्त्रियम्बकं संयमिनं ददर्श | भविष्यतः पत्युरुमा च शंभो: समाससाद प्रतिहारभूमिम् । योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम । विवृण्वती शैलसुतापि भाव- मङ्गैः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन । मध्येन सा वेदिविलझमध्या वलित्रयं चारु बभार बाला | आरोहणार्थं नवयौवन कामस्य सोपानमिव प्रयुक्तम् । अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् | प्रतिग्रहीतुं प्रणयिप्रियत्वा- त्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् । हरस्तु किंचित्परिलुप्तधैर्य- चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि । अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशिस्वादलवनिगृह्य १५ सुसंस्मृत्य वरं तस्यां विधिदत्तं पुरा प्रभुः । शिवोऽपि वर्णयामास तदंगानि मुदा मुने ! | स्त्रीस्वभावाच सा तत्र लजिता दूरतो गता । विवृण्वती निजा॑गानि पश्यंती च मुहुर्मुहुः । सुवीक्षणैर्महा मोदात्सुस्मिताभूच्छिवा मुने ! | एवं चेष्टा तदा दृष्ट्वा शम्भुर्मोहमुपागतः । तदैवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः । द्रुतं पुष्पशरं तस्मै स्मरोऽमुञ्चत्मसंयतः | तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता । सादृष्ट्वा पार्वती तत्र प्रभुणा गिरिशेन हि । विवृण्वती तदांगानि स्त्रीस्वभावात्मुलजया | उवाच वचनं चैवं महालीलो महेश्वरः । अस्या दर्शनमात्रेण महानंदो भवयलम् । यदालिंगन मे तस्याः कुर्यां किन्तु ततः सुखम् । क्षणमात्रं विचार्यत्थं संपूज्य गिरिजां ततः । प्रबुद्धः स महायोगी सुविरक्तो जगाविति । शिव उवाच- किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् । केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा ।