पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारसंभव - महाशिवपुराणयोः तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती । संकल्पयोनेरभिमानभूत- मात्मानमाधाय मधुर्जजृम्भे । लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य । रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार । मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शुङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः । श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति । कामस्तु बाणावसरं प्रतीक्ष्य अचह्निमु विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श । दृष्टिप्रपातं परिहृत्य तस्य काम: पुरःशुक्रमिव प्रयाणे । प्रान्तेषु संसकनमेरुशा खं ध्यानास्पदं भूतपतेर्विवेश । सदेवदारुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् । तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः । एवं वसंत विस्तारो मदनावेशकारकः । वनौकसां तदा तत्र मुनीनां दुःसहोऽत्यभूत् । कैरवाणि च पुष्पाणि भ्रमराकलितानि च । बभूवुर्मदनावेशकराणि च विशेषतः । यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः । महादेवस्तदा सोऽभून्महाभयविमोहितः । एतस्मिन्नन्तरे तत्र सखीभ्यां संयुता शिवा । जगाम शिवपूजार्थ नीत्वा पुष्पाण्यनेकशः । यदा शिवसमीपे तु गता सा पर्वतात्मजा | तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः । तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु । वाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् । शृङ्गारैश्च तदा भावैः सहिता पार्वती हरम् । जगाम कामसाहाय्ये मुने | सुरभिणा सह ।