पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भः गुरोर्नियोगाञ्च नगेन्द्र कन्या स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इत्याप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः । तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् । प्रसिद्ध यशसे हि पुंसा- मनन्यसाधारणमेव कर्म । सुराः समभ्यर्थयितार ते कार्य त्रयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्र महो ! बतासि स्पृहणीयवीर्यः! स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः । अङ्गव्यय प्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम । असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण । वर्णप्रकर्षे सति कर्णिकार दुनोति निर्गन्धतया स्म चेतः । प्रायेण सामग्यविधौ गुणानां परामुखी विश्वसृजः प्रवृत्तिः । १३ तत्समीपे च देवार्थं पार्वती स्वसखीना | सेवमाना तिष्ठतीति पित्राज्ञप्ता मया श्रुतम् । यथा तस्यां रुचिस्तस्य शिवम्य नियतात्मनः । . जायते नितरां मार ! तथा कार्यन्वया ध्रुवम् लोके स्थायी प्रतापस्ते भविष्यति न चान्यथा | इति कृत्वा कृती म्यास्त्वं सर्वं दुःखं विनंक्ष्यति । अग्रहीत्तरसा कामः शिवमायाविमोहितः । यत्र योगीश्वरः साक्षात्तप्यते परमं तपः । जगाम तत्र सुप्रीतः सदारः सवसंतकः । वसंतः स च यो धर्मः प्रससार स सर्वतः । तपःस्थाने महेशस्योषधिप्रस्थे मुनीश्वर ! | वनानि च प्रफुल्लानि पादपानां महामुने ! | पुष्पाणि सहकाराणामशोकवनिकासु वै 1 विरेजुः मुस्मरोद्दीपकराणि सुरभीण्यपि ।