पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ७३-७९]
१४१
महेश्वरसन्देशनिवेदनम्

 कलितेति ॥ येन शंभुना कल्पितं धृतिसंग्रहादिस्वस्वगुणसंपादितमन्योन्यसामर्थ्यं परस्परसहकाररूपं यैस्तथोक्तैः, स्वस्वरूपसामर्थ्यमन्योन्याधेयमेवेति भावः । पृथिव्यादिभिरात्मभिः, अष्टाभिर्मूर्तिभिरित्यर्थः । इदं व्यक्तं विश्वं धुरं वहन्तीति धुर्यैरश्वैः। 'धुरो यड्डकौ' (पा. ४।४।७७) इति यत्प्रत्ययः । अध्वनि यानं रथ इव ध्रियते ॥ ७६ ॥

  योगिनो यं विचिन्वन्ति क्षत्राभ्यन्तरवर्तिनम् ।
  अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ।। ७७ ॥

 योगिन इति ॥ योगिनोऽध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्चरं सर्वभूतान्तर्यामिणम् , परमात्मस्वरूपिणमित्यर्थः । 'क्षेत्रं पत्नीशरीरयोः' इत्यमरः। यं शंभुं विचिन्वन्ति मृगयन्ते मनीषिणो विद्वांसो यस्य शंभोः पदं स्थानमविद्यमानमावृत्तेः पुनः संसारापत्तेर्भयं यत्र तत्तथाभूतमाहुः ॥ ७७ ॥

  स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणाम् ।
  वृणुते वरदः शंभुरस्मत्संक्रामितैः पदः ॥ ७८ ॥

 स इति ॥ विश्वस्य जगतः कर्मणां साक्षी द्रष्टा । 'साक्षाद्द्रष्टरि संज्ञायाम्' (पा. ५।२।९१) इतीनिप्रत्ययः । वरानिष्टान् ददातीति वरदः । 'आतोऽनुपसर्गे कः' (पा, ३।२।३) इति कप्रत्ययः। स पूर्वोक्तः शंभुरस्मत्संक्रामितैः पदैरस्मासु निवेशितैर्वाक्यैस्ते दुहितरं साक्षाद्वृणुते, अस्मन्मुखेन स्वयमेव याचत इत्यर्थः ॥ ७८ ॥

  तमर्थमिव भारत्या सुतया योक्तुमर्हसि ।
  अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ॥ ७९ ॥

 तमिति ॥ तं शंभु भारत्या वाचाऽर्थमभिधेयमिव सुतया दुहित्रा योक्तुं संघटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थ्याच्छिवयोर्नित्ययोगो विवक्षित इत्युक्तं । 'वागर्थाविव संपृक्तौ' (रघु० १।१) इत्यत्रापि । तथा हि-सद्भर्त्रे प्रतिपादिता दत्ता कन्या पितुरशोच्या ॥ ७९ ॥


पाठा०-१ संक्रमितः. २ सद्भर्त्रे.

टिप्प०---1 अत्र 'येनेदं ध्रियते व्यक्तं' इति मल्लिनाथादृतः पाठ इति प्रतीयते ।