पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
[ सर्गः ६
कुमारसंभवे

 गुणान्तरमप्याह--

  यावन्त्वेतानि भूतानि स्थावराणि चराणि च ।
  मातरं कल्पयन्त्वेनामीशो हि जगतः पिता ॥ ८ ॥

 यावन्तीति ॥ स्थावराणि चराणि च यावन्त्येतानि भूतानि, सन्तीति शेषः । सर्वाणि भूतानीत्यर्थः । एनां ते दुहितरं मातरं कल्पयन्तु । हि यस्मादीशो जगतः पिता । पितृदारेषु मातृभावो न्याय्य इति भावः ॥ ८० ॥

  प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
  चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ॥ ८१ ॥

 प्रणम्येति ॥ विबुधा देवाः शितिकण्ठाय शिवाय प्रणम्य तदनन्तरं नीलकण्ठप्रणामानन्तरमस्याश्चरणौ चूडामणिमरीचीभी रञ्जयन्तु । ईश्वरपरिग्रहादखिलदेवतावन्द्या भवत्वित्यर्थः ॥ ८१ ॥

  उमा वधूर्भवान्दाता याचितार इमे वयम् ।
  वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः॥ ८२ ॥

 उमेति ॥ उमा वधूः । भवान्दाता । इमे वयं याचितारः प्रार्थकाः । शंभुर्वरो वोढा । एष विधिरेषा सामग्री त्वत्कुलस्योद्भूतय उच्छ्रयायालं पर्याप्तं हि । 'नमःस्वस्तिस्वाहास्वधा-' (पा. २।३।१६) इत्यादिना चतुर्थी ॥ ८२ ॥

  अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।
  सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः ॥ ८३॥

 अस्तोतुरिति ॥ स्वयमन्यस्तोता न भवतीत्यस्तोतुः किंतु स्तूयमानस्य सर्वस्तुत्यस्य वन्द्यस्य जगद्वन्द्यस्य स्वयमन्यं न वन्दत इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासंबन्धविधिना यौनसंबन्धाचरणेन गुरुर्भव, यो नान्यं स्तौति न चन्दते तस्यापि त्वं स्तुत्यो वन्द्यश्चेत्यहो तव भाग्यवत्तेत्यर्थः ॥ ८३ ॥


पाठा०-१ जगताम्. टिप्प०-1 शिशुपालवधे माघेनायमेवार्थो विशदतया प्रतिपादित:-'केवलं दधति कर्तृवाचिन: प्रत्ययानिह न जातु कर्मणि। धातवः सृजति संहृशास्तयः स्तौतिरत्र

विपरीतकारकः' इत्यनेन ।