पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
[ सर्गः ६
कुमारसंभवे

भावादिति भावः । अस्य तु तत्सद्भावे प्रमाणम् -'हिमवतो हस्ती' इति श्रुतिः ॥ ७२ ॥

काठिन्यं स्थावरे काये भवता सर्वमर्पितम् । इदं तु ते भक्तिननम्रं सतामाराधनं वपुः ॥ ७३ ॥

काठिन्यमिति ॥ भवता सर्वं काठिन्यम्, अनम्रत्वमित्यर्थः । स्थावरे स्थिरे काये, शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सतामर्हतामाराधनं पूजासाधनं साधनं त इदं वपुस्तु जङ्गममित्यर्थः । भक्ति नम्रम् । काठिन्यलेशोऽपि नास्ति, अन्यथा नम्रत्वासंभवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते ॥ ७३ ॥ तदागमनकार्यं नः शृणु काय तवैव तत् । श्रयसामुपदेशात्तु वयमत्रांशभागिनः ।। ७४ ॥

तदिति ॥ तत्तस्मान्नोऽस्माकमागमनस्य कार्यं प्रयोजनं शृणु, तत्कार्यं च तवैव न त्वस्माकमित्यवधारणार्थं एवकारः। वयं तु श्रेयसामुपदेशादत्र कार्यंऽशभागिनः। त्वमेवात्र फलभाक्, वयमुपदेष्टार इति भावः ॥ ७४ ॥

कार्यमेवाह-

अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चः सार्धचन्द्रं बिभर्ति यः ॥ ७५ ॥

अणिमेति ॥ यः शंभुरणिमादिगुणोपेतमणिमादिभिरष्टभिर्गुणैर्वाच्यभूतैरुपेतम् , अष्टैश्वर्यवाचकमित्यर्थः । अत एवास्पृष्टं पुरुषान्तरं येन तं तथोक्तं पुरुषान्तरस्यानभिधायकम् ।

तस्यैवैवंगुणत्वादित्यर्थः । उँच्चैः परममीश्वर इति शब्दम् ,

निरुपपदेश्वरशब्दमित्यर्थः । सार्धचन्द्रमर्धचन्द्रयुक्तम् , अर्धचन्द्रं चेत्यर्थः । बिभर्ति ॥ ७५॥

कल्पितान्योन्यसामर्थ्यै: पृथिव्यादिभिरात्मभिः । येनेदं ध्रियते विश्वं धुर्यैयानमिवाध्वनि ।। ७६ ॥

पाठा०-१ अर्हदाराधनम्, २ यथा यत् ; ३ तथा. ४ च. ५ अपि. ६ भाजिनः.. गुणोत्थानम्. ८ धार्यते.

.