पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति व्याहत्य विबुधा- विश्वयोनिस्तिरोदधे | मनस्या हितकर्तव्या- म्तेऽपि देवा दिवं ययुः । साम्यनिदर्शक: संदर्भ: तत्र निश्चित्य कंदर्पम- गमत्पाकशासनः । मनसा कार्य संसिद्धौ स्वराद्विगुणरंहसा || अथ स ललितयोषिलता चारुशङ्गं आगतस्तत्क्षणात्कामः सवसंतो रतिप्रियः । रतिवलयपदाङ्के चापमासज्य कण्ठे | सावलेपो युतो रत्या त्रैलोक्यविजयी प्रभुः । सहचरम वुहस्तन्य स्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा । आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्त मिच्छामि संवर्धितमाज्ञया ते । केनास्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घेर्जेनिता तपोभिः । यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती । ११ स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः । निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः ! | इत्युक्त्वाहं च संबोध्यासुरं तं सकलेश्वरः । ma स्मृत्वा शिवं च सशिवं तत्रांतर्धानमागतः । गतेषु तेषु देवेषु शकः सस्मार वे म्मरम् । तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतः स्मरः महोन्नतमनास्तात ! सांजलिः शक्रमब्रवीत् । काम उवाच- किं कार्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना ? तत्त्वं कथय देवेश ! तत्कर्तुं समुपागतः । पदं ते कर्षितुं यो वै तपस्तपति दारुणम् । पातयिष्यामहं तं च शत्रुं ते मित्र ! सर्वथा । क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः । देवर्षिदानवादींश्च नराणां गणना न मे । वज्रं तिष्ठतु दूरे वे शस्त्राण्यन्यान्यनेकशः | पंचैव मृदवो वाणास्ते च पुष्पमया मम । चापत्रिधा पुष्पमयः शिंजिनी भ्रमरार्जिता । बलं सुदयिता मे हि वसंतः सचिवः स्मृतः । अहं पंचबलो देवो मित्रं मम सुधानिधिः ।