पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वाभिः सर्वदा चन्द्र- स्तं कलाभिर्निषेवते । नादसे केवलां लेखां हरचूडामणीकृताम् । इत्थमाराध्यमानोऽपि लिभाति भुवनत्रयम् । शाम्येत्प्रत्युपकारेण नोपकारेण दुर्जनः । मरवधूस्तैः सदयालूनपलवाः । अभिज्ञाइछेदपातानां क्रियन्ते नन्दनद्रुमाः । तस्मिन्नुपायाः सर्वे नः करे प्रतिहतक्रियाः । वीर्यवन्त्यौषधानीव विकारे सांनिपातिक । जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा | हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् । वचस्यवसिते तस्मि- न्ससर्ज गिरमात्मभूः | गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा । साम्यनिदर्शक: संदर्भः तस्य सेनापतिः क्रौंचो महापाप्यस्ति दानवः : स पातालतलं गत्वा बाधतेऽत्यनिशं प्रजाः तेन नस्तारकेणेदं सकलं भुवनत्रयम् । हतं हठाजगद्धातः ! पापेनाकरुणात्मना । वयं सर्वे तारकास्यवहौ दग्धाः सुविह्वलाः | P तेन क्रूरा उपाया नः सर्वे हतवलाः कृताः । यावत्यो वनिताः सर्वा ये चाप्यप्सरसा गणाः । सर्वास्ता नग्रही त्यस्तारकोऽसौ महाबली | विकारे सांनिपाते वा वीर्यवंयौषधानि च । यत्राम्माकं जयाशा हि हरिचक्रे सुदर्शने । तत्कुंठितमभूत्तस्य कंठे पुष्पमिवार्पितम् । ब्रह्मोवाच - इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने ! : प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः ।