पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४०-४४]
१०३
तव किंहेतुकं तपश्चरणमिति प्रश्नः

 अलभ्येति ॥ हे सुभ्र ! इयं स्वदीयाकृतिर्मूर्तिरलभ्यो लब्धुमनर्हः शोकेन मार्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता, दृश्यत इति शेषः । असंभावितश्चायमर्थः इत्याह-पितुर्गृहे विमाननावमानः कुतः ? न संभाव्यत एवेत्यर्थः । 'सु भ्रू कुतस्तातगृहेऽवमाननम्' इति पाठान्तरकरणं तु साध्वसमेव; उक्तोपपत्तिसंभवात् । अन्यत्रापि 'सुश्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्' इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रस-. ङ्गाचेत्यलं गोष्ठीभिः । न चाप्यन्यस्माद्भावीत्याह-पराभिमर्शः परधर्षणं तु तव नास्ति, पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (पा. २।३।१४) इति चतुर्थी । करं हस्तं कः प्रसारयेत् ? 'सुभ्र' इत्यत्र भ्रूशब्दस्योवस्थानीयत्वात् 'नेयङुवङ्स्थानावस्त्री' (पा. १।४।४) इति नदीसंज्ञाप्रतिषेधात् 'अम्बार्थनद्योर्ह्रस्वः' (वा० ७।३।१०७) इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु 'अप्राणिजातेश्चारज्ज्यादी- नाम् -' (वा० २५०२) इत्यत्र ‘अलाबूः' 'कर्कंधूः' इत्यूकारान्तादप्यूङ्प्रत्यय- मुदाजहार भाष्यकारः । एतस्मादेव नियमज्ञापकात्क्वचिदूकारान्तस्याप्यूङन्तत्वा- न्नदीत्वे हृस्वत्वमित्याहुः । अत एवाह वामनः --- 'ऊकारादप्यूङ्प्रकृतेः' (काव्या. सू. ५।२।४७) इति ॥ ४३ ॥

 किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।
 वद प्रदोषे स्फु[१]टचन्द्रतारका विभावरी यद्यरुणाय कल्पते ।। ४४॥

 किमिति ॥ हे गौरि ! किमिति केन हेतुना यौवने स्वयाभरणान्यपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद्वुप्रत्ययः । 'वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि' इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् ? प्रदोपे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिररुणाय सूर्याय कल्पते यदि अरुणं गन्तुं कल्पते किम् ? वद ब्रूहि । ‘क्रियार्थोपपदस्य-' (पा. २।३।१४) इत्यादिना चतुर्थी । दीप्यमान- शशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं सं[२]घटत इति भावः ॥ ४४ ॥


 पाठा०-विनिकीर्णतारका. २ संगच्छते.


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः