पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
[ सर्गः ५
कुमारसंभवे


 अतोत्र[१] किंचिद्भवतीं बहुक्षमा द्विजातिभावादुपपन्नचापलः ।
 अयं जनः प्रष्टुमनास्तपोधने ! न चेद्रहस्यं [२]प्रतिवक्तुमर्हसि ॥४०॥

 अत इति ॥ हे तपोधने ! अतः सख्या्द्धेतोरत्र प्रस्तावे बहुक्षमाम् । बहूक्ति- सहाम् , यद्वा क्षमावतीम् । भवतीं त्वां द्विजातिभावाद्ब्राह्मणत्वादुपपन्नचापलः सुलभधार्ष्ट्योऽयं जनः । स्वयमित्यर्थः । किंचित्प्रष्टुं मनो यस्य स किंचित्प्रष्टुमनाः प्रष्टुकामः । 'तुं काममनसोरपि' (वा० ) इति मकारलोपः। रहसि भवं रहस्यं गोप्यं न चेत्प्रतिवक्तमर्हसि ॥ ४० ॥

 प्रष्टव्यमाह-

 कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
 अमृग्यमैश्वर्यसुखं नवं वयस्तप:फलं स्यात्किमतः परं वद ॥ ४१ ॥

 कुल इति ॥ प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । 'यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः' इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् । ऐश्वर्यसुखं संपरसुखम- मृग्यमन्वेषणीयं न भवति, किंतु सिद्धमेवेत्यर्थः । वयो नवम् , यौवनमित्यर्थः। अतः परमतोऽन्यस्किं तपःफलं स्यात् ? वद, अस्ति चेदिति शेषः । न किंचिद- स्तीत्यर्थः ॥४१॥

 भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी ।
 विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कुशो[३]दरि! त्वयि ॥४२॥

 भवतीति ॥ दुःसहात्सोढुमशक्यादनिष्टाद्भर्त्रादिकृतादपि मनस्विनीनां धीर- स्त्रीणामीदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । 'प्रतिपत्तिस्तु गौरवे । प्राप्ती प्रवृत्तौ प्रागल्भ्ये' इति केशवः । भवति नाम । 'नाम'इति संभावनायाम् । विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टं च । हे कृशोदरि ! त्वयि न दृश्यते, विचार्यमाणे तदपि नास्त्यसंभावितत्वादित्यर्थः ॥ ४२ ॥

 अनिष्टाभावमेव प्रपञ्चयति-

 अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु ! कुतः पितुर्गृहे ।
 [४]राभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥४३॥


पाठा०-१ अद्य. २ प्रतिगोप्तुम्. ३ तनूदरि. ४ परावमर्शः.


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः
  4. लघुः पाठ्यांशः