पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
[ सर्गः ५
कुमारसंभवे

 तपःप्रयोजनं निराकतुमाह

 दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः ।
 अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥४५॥

 दिवमिति ॥ दिवं स्वर्ग प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे, ततः श्रमं मा कार्षीः । कुतः ? तव पितु- र्हिमवतः प्रदेशा देवभूमयः स्वर्गपदार्थाः, तत्रत्या इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे, तर्हि समाधिना तपसाऽलम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथा हि-रलं कर्तृ, नान्विष्यति न मृगयते, ग्रहीता. रमिति शेषः; किंतु तद्नत्नं मृग्यते, ग्रहीतृभिरिति शेषः । न हि वरार्थं त्वया तपसि वर्तितव्यं किंंतु तेनैव त्वदर्थमिति भावः ॥ ४५ ॥

 वरवाचकाक्षरश्रवणानन्तरमेव देव्या उष्णोच्छ्वासमालक्ष्य प्रश्नेषु च प्रत्युत्तर मनुपलभ्य स्वयमेवाशङ्कयाह-

 निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते ।
 न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥४६॥

 निवेदितमिति ॥ सोप्मणा निश्वसितेन निश्वासवायुना निवेदितम् , चिन्तानुभावेनोप्णोच्छासेन ने वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसने- नेत्याह-मन इति । मनस्तु तथापि मे संशयमेव गाहते प्रामोति । कुतः ? ते तव । 'कृत्यानां कर्तरि वा' (पा. २।३।७१) इति पष्ठी । प्रार्थयितव्यः प्रार्थयितु- मर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभः स कथं भविष्यति ? नास्त्येवेत्यर्थः ॥ ४६॥

 अथ पतिप्रार्थनामेव सिद्धवत्कृत्वाह-

 अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते।
 उपेक्षते यः श्लथ[१]लम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥४७॥

 अहो इति ॥ अहो चित्रम् । तवेप्सित आप्नुमिष्टो युवा कोऽपि स्थिरः कटिनः, वर्तत इति शेषः । कुतः ? यो युवा चिराय चिरात्प्रभृति कर्णोत्पल- शून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथितबन्धना अत एक लम्बि-


पाठा-१ बन्धनीर्जटाः कपोलदेशे; बन्धलम्बिनीर्जटाः कपोले.


  1. लघुः पाठ्यांशः