पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

९८ कुमारसंभवे [ सर्गः ५

मृणालिकापेलवमेवमादिभिव्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् |
तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा || २९ ||

 मृणालिकेति || मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयमङ्गं शरीर- मेवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्व्रतैरहश्च निशा चाहर्निशम् | समाहारे द्वन्द्वैकवद्भावः | अत्यन्तसंयोगे द्वितीया | ग्लपयन्ती कर्शयन्ति सा पार्वती | कठिनैः, क्लेशसहैरित्यर्थः | शरीरैरुपार्जितं संपादितं तपस्विनामृषीणां तपो दूरमत्यन्तमधश्चकार तिरश्चकार, अतिशिश्य इत्यर्थः | तपस्विभिरप्येवं तपः कर्तुं न शक्यत इति तात्पर्याथः || २५ ||

अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा |
विवेश कश्चिञ्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा || ३० ||

 अथेति || अथानन्तरमजिनं कृष्णमृगत्वक् | आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः | 'पालाशो दण्ड आषाढः' इत्यमरः | "विशाखाषाढादण्मन्थ- दण्डयोः' (पा. ५|१|११०) इत्यण्प्रत्ययः | तयोर्धरस्तथोक्तः प्रगल्भवाक्प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजसा, ब्रह्मवर्चसेनेत्यर्थः | ज्वलन्निव स्थितः | 'इव'शब्दो निर्धारणार्थः | कश्चिदनिर्दिष्टो जटिलो जटावान् , ब्रह्मचारीति शेषः | पिच्छा- दित्वादिलच्प्रत्ययः | शरीरबद्धो बद्धशरीरः, शरीरवानित्यर्थः | वाहिताभ्यदिपु पाठास्साधुः | प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव | 'यथा'शब्द इवार्थे | तपो- वनम् , देव्या इति शेषः | विवेश प्रविष्टवान् || ३० ||

तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती |
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ३१

 तमिति || अतिथिषु साध्व्यातिथेयी | 'पथ्यतिथि-' (पा. ४|४|१०४) इत्यादिना ढञ्प्रत्ययः | 'टिड्डाणज-'(पा. ४|१|१५) इत्यादिना ङप् | पार्वती तं ब्रह्मचारिणं बहुमानः पूर्वो यस्यास्तया, गौरवपूर्वयेत्यर्थः | सपर्ययाऽर्चया | 'सपर्यार्चाहणाः समाः' इत्यमरः | प्रत्युदियाय प्रत्युज्जगाम | कथं समानेऽपि


पाठा०-- १ कोमल. २ तदङ्गम्. ३ क्षपयन्ति. ४ 'सुराः समुद्वीक्ष्य नगेन्द्र- कन्यया कृतं तपः शंभुवशक्रियाक्षमम् | ययाचिरे तं प्रणिपत्य दुःखिताः पतिं चमूनां सुतमाजिहेतुम् ||' (१ तदुद्वीक्ष्य. २ हेतवे.)

.