पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

श्लो० २५-२८] स्वयंपतितद्रुमपर्णवृत्तित्यागादपर्णाभिधानम् ९७

तथा परस्परमा त्र न्दिन्यन्योन्यमाक्रोशिनि पुरोऽग्ने वियुक्ते विरहिणि, वियोगं प्राप्त इति यावत् | चक्रवाकी च चक्रवाकश्च चक्रवाकौ, तयोश्चक्रवाकयोमिथुने द्वन्द्वे कृपावती सती निनाय | दुःखिपु कृपालुत्वं महतो स्वभाव इति चक्रवाक- मिथुने कृपा, न तु कामितयेति वाच्यानवकाशः| 'अप्सु वासस्तु हेमन्ते क्रमशो वर्धयंस्तपः' इति (६।२३) मनुः ||२६||

मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना |
तुपारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाकरोदपाम् || २७ ||

 मुखेनेति || सा पार्वती निशि रात्रौ पद्मवत्सुगन्धिना सुरभिणा | 'गन्ध- स्येत्-' (पा. ५|४|१३५) इत्यादिनेकारः | प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्रं दलं तेन शोभत इति तथोक्तेन मुखेन, तुषारवृष्ट्या तुहिनवर्षेण क्षता नाशिताः पद्मसंपदो यासां तासामपां सरोजसंधानं पद्मसंघट्टनमकरोदिव इत्युत्प्रेक्षालंकारः | पद्मान्तरं तुहिनेनोपहन्यते, तन्मुखपद्मं तु न तथेति व्यति- रेकालंकारो व्यज्यत इत्युभयोः संकरः || २७ ||

स्वयंविशीर्णद्रुभपर्णवृत्तिता परा हि काष्टा तपसस्तया पुनः |
तदप्यपाकीर्णमतः प्रियंवदां वदन्त्येपर्णेति च तां पुराविदः || २८ ||

 स्वयमिति || स्वयं विशीर्णानि स्वतश्चयुतानि द्रुमपर्णान्येव वृत्तिजीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्टा परमुत्कर्षो हि | 'काष्टोत्कर्षे स्थितौ दिशि' इत्यमरः | तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकीर्णभपाकृतम् | अतः पर्णापा- करणाद्धेतोः | प्रियं वदतीति प्रियंवदा | 'प्रियवशे वदः खच्' (पा. ३|२|३८) इति खच्प्रत्ययः | 'अरुर्द्विषदजन्तस्य मुम्' (पा. ६|३|६७) इति मुमागमः | तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमयेऽविद्यमानं पर्णभक्षणं यस्याः साऽपर्णेति वदन्ति | नामान्तरसमुच्चयार्थश्चकारः | स्वयं प्रियंवदाः परेषामपि प्रियवाद- भाजनानि भवन्तीति भावः । अत्र 'अपर्णाम्' इत्यापाठः; 'इति' शब्दाभिहिते द्वितीयानुपपत्तेः, यथाह वामनः (काव्या.सू.५|२|२१)--'निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः, परिगणनस्य प्रायिकत्वात्' इति || २८ ||


पाठा०--१ अपर्णामिति. ७ क० सं०