पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

श्लो० २९-३४] ब्रह्मचारिरूपधृक्शिवस्य भाषणोपक्रमः ९९

तस्यास्ताहशी प्रतिपत्तिरत आह--साम्ये सत्यपि निविष्टचेतसां स्थिरचित्तानां वपुर्विशेषेषु शरीरविशेषेष्वतिशयितं गौरवं यासु ता अतिगौरवा अतिगौरव- सहिताः क्रियाश्चेष्टा भवन्ति, प्रवर्तन्त इत्यर्थः | साधवो न साम्याभिनिवेशिन इति भावः || ३१ ||

विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् |
उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः || ३२ ||

 विधीति || स ब्रह्मचारी विधिना प्रयुक्तामनुष्टितां सत्क्रियां पूजां परिगृह्य स्वीकृत्य क्षणं परिश्रमं विश्रामं च विनीय नाम | 'नाम' इत्यपरमार्थे | अथोमामृजु- नैव विलासरहितेनैव चक्षुषा पश्यन्ननुज्झितक्रमोऽत्यक्तोचितपरिपाटीकः सन् | वक्तुं प्रचक्रमे प्रारेभे || ३२ ||

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते |
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् || ३३ ||

 अपीति || 'अत्रपि'शब्दः प्रश्ने | क्रियार्थं होमादिकर्मानुष्ठानार्थम् | समिधश्च कुशाश्च समित्कुशम् | 'जातिरप्राणिनाम्' (पा. २|४|६) इति द्वन्द्वैकवद्भावः | सुलभमपि सुलभं कञ्चित् ? जलानि ते तव स्नानविधिक्षमाणि स्नानक्रियायोग्या- ण्यपि कच्चित् ? किंच स्वशक्त्या निजसामर्थ्यानुसारण तपसि प्रवर्तसेऽपि, देह- मपीडयित्वा तपश्चरसि कञ्चिदित्यर्थः | युक्तं च नामैतत् , यस्माच्छरीरमाद्यं खलु धर्मसाधनम् | धर्मस्तु कायेन वाचा बुद्ध्या धनादिना च बहुभिः साध्यते, तेपु च वपुरेव मुख्यं साधनम् | सति देहे धर्मार्थकाममोक्षलक्षणाश्चतुर्वर्गाः साध्यन्ते | अत एव 'सततमात्मानमेव गोपायीत' इति श्रुतिः || ३३ ||

अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् |
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा || ३४ ||

 अपीति || त्वयाऽऽवर्जितेन सिक्तेन वारिणा संभृतं जनितमासां वीरुधां लतानां प्रवालं पल्लवमनुबन्ध्यप्यनुस्यूतं किम् ? यत्प्रवालं चिरोज्झितश्चिरकाल- त्यक्तो लाक्षारागो येन तत्तथापि पाटलम् , स्वभावरक्तमित्यर्थः | तेन चिरोज्झि- तालक्तकपाटलेन ते तव दन्तवाससाधरेण | 'ओष्ठाधरौ तु रदनच्छदौ दशन-


पाठा०--१ प्रतिगृह्य. २ अयि. ३ अयि. ४ अयि. ५ अयि.