पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

श्लो० १२-१७] पार्वतीतपोवर्णनम् ९३

अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः |
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने || १५ ||

 अरण्येति || अरण्यबीजानां नीवारादीनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुर्विस्त्रम्भं जग्मुः | 'समौ विस्रम्भविश्वासौ' इत्यमरः | यथा कुतूहलादौत्सुक्यात्तदीयैर्हरिणसंबन्धिभिर्नयनैनैत्रैः करणैः | स्वकीये लोचने सखीनां पुरः पुरतः | अनेन तेषां संबन्धसहत्वमुक्तम् | अमि- मीत, अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः | केचित्तु सा पार्वती त्वदीयैनैत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वा- दात्मन इत्याहुः | 'माङ् माने' इत्यस्माद्धातोर्लङ् | इयमेव खलु विश्वासस्य पराकाष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः || १५ || तपःप्रभावमाह--

कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीनिनीम् |
दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते || १६ ||

 कृतेति || कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् , कृतहोमा- मित्यर्थः | त्वचा वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगुत्तरासङ्गवतीम् | अधीत- मस्या अस्तीत्यधीतिनीं स्तुतिपाठादि कुर्वतीम् | 'इष्टादिभ्यश्च' (पा. ५|२|८८) इतीनिप्रत्ययः | तां देवीं दिदृक्षवो द्रष्टुमिच्छव ऋपयो मुनयोऽभ्युपागमन्समुपा- गताः | न चात्र कनिष्ठसेवादोष इत्याह--धर्मवृद्वेषु वयो न समीक्ष्यते न प्रमाणीक्रियते, सति धर्मज्यैष्ठ्ये न वयोज्यैष्ठ्यं प्रयोजकमित्यर्थः | तथा च मनुः (२|१५६)--'न तेन वृद्धो भवति येनास्य पलितं शिरः | यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ||' इति || १६ ||

विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमौरभीष्टप्रसवार्चितातिथि |
नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् || १७||

 विरोधीति || विरोधिभिः सच्वैगौव्याघ्रादिभिरुज्झितपूर्वमत्सरं त्यक्तपूर्व- वैरम्, हिंसारहितमित्यर्थः | द्रुमैरभीष्टप्रसवेनेष्टफलेनार्चिताः पूजिता अतिथयो यस्मिंस्तत्तथोक्तम् | नवानामुटजानां पर्णशालानामभ्यन्तरेषु संभृताः संचिता अनला अग्नयो यस्मिंस्तत्तथोक्तं तश्च तपोवनम् | पावयतीति पावनं बभूव, अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः || १७ ||