पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

१४ कुमारसंभवे [ सर्गः ५

यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काक्ष्ङितम् |
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे || १८ ||

 यदेति || सा देवी यदा यस्मिन्काले तावता तावत्प्रमाणेन पूर्वतपः- समाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काक्ष्ङितं फलं लभ्यं लब्धुं शक्यं नामंस्त, अशक्यममस्तेत्यर्थः | तदा तत्काले, अविलम्बेनेत्यर्थः | स्व- शरीरस्य मार्दवं मृदुत्वं सौकुमार्यमनपेक्ष्याविगणय्य महौदृश्चरं तपश्चरितुं साधयितुं प्रचक्रम उपचक्रमे || १८ ||

क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत |
ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ||१९||

 क्लममिति || या देवी कन्दुकलीलया कन्दुकक्रीडयापि क्लमं ययौ ग्लानिं प्राप, तया देव्या मुनीनां चरितं तीव्रं तपो व्यगाह्यत प्रविष्टम् | अत्रोस्प्रेक्षते-- ध्रुवमस्या वपुः काञ्चनपद्मेन सुवर्णकमलेन निर्मितं घटितम् | अत एव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्यापि तीव्रतपः क्षमत्वमित्युत्प्रेक्षार्थः ||१९||

शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा |
विजित्य नेत्रप्रतिधातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ||२०||

 शुचाविति || शुचौ ग्रीप्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णा हविर्भुजामग्नीनां मध्यगता सती | नेत्रे प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं तेजो विजित्य | न विद्यतेऽन्यत्र दृष्टिर्यस्याः साऽनन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श | 'ग्रीप्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः' इति (याश० ३।५२) स्मरणात् | पञ्चाग्निमध्ये तपश्चचारेत्यर्थः | तत्र सवितौव पञ्चमोऽग्निः— 'अग्निः सविता सवितैवाग्निः' इति श्रौतलिङ्गात् ||२०||

तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ |
अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् २१


पाठा०--१ सर्वममाधिसाधनम्. २ हि च सुसारमेव. ३ तथाभितप्तम् ; तथापि तप्तम्.