पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
श्लो० ७-१२]
७७
रतिविलापवर्णनम्

ङ्गोऽशरीरः । कथं रतिरक्षताऽविनष्टा ? आश्रयनाशेऽप्याश्रितमविनष्टमिति विरोधादिति भावः ॥ ९ ॥

 न च मे कश्चिद्विचारः, किंतु लोकः शोच्यत इत्याह--

 परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
 विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् १०

 परलोकेति ॥ परलोकं प्रति नवप्रवासिनोऽचिरप्रोषितस्य । अनेनानुगमनकालानतिपातः सूच्यते । तव पदवीं मार्गं प्रतिपत्स्ये, त्वामनुगमिष्यामीत्यर्थः । अतो मे नास्ति विचार इति भावः । किंतु विधिना दैवेनैष जनो लोको वञ्चितः प्रतारितः । देहिनां सुखं त्वदधीनं त्वय्यधीनं खलु । अधिशब्दस्य शौण्डादित्वात् 'सप्तमी शौण्डैः' (पा. २।१।४० ) इति समासः । 'अध्युत्तरपदात्' (पा. ५।४।७) इति खप्रत्ययः । एवमन्यत्रापि । सुखप्रदाभावे कुतः सुखमिति भावः॥ १० ॥

 तदेवाह--

 रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।
 वसतिं प्रिय ! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ११

 रजनीति ॥ हे प्रिय ! रजनीतिमिरेणावगुण्ठित आवृते पुरमार्गे धनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना । 'अन्यारादितरर्ते-' (पा. २।३।२९) इत्यादिना पञ्चमी । क ईश्वरः शक्तः ? न कश्चिदित्यर्थः । न हि कामान्धानां भीतिरस्तीति भावः ॥ ११ ॥

 नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे पदे ।
 असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥ १२ ॥

 नयनानीति ॥ अरुणानि नयनानि घूर्णयन्भ्रामयन् । तथा पदे पदे प्रतिपदम् । वीप्सायां द्विरुक्तिः । वचनानि स्खलयन्विपर्यासयन् प्रमदानां वारुणीमदो मद्यमदोऽधुना त्वय्यसति विडम्बनाऽनुकृतिमात्रम् । मदनाभावे मदस्य निष्फलत्वादिति भावः । तथा च शिशुपालवधे ( १०।३३)--'तां मदो

दयितसंगमभूषः' इति ॥ १२ ॥