पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
[ सर्गः ४
कुमारसंभवे

 कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
 किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ७ ॥

 कृतेति ॥ हे प्रिय ! त्वं मे मम विप्रियमप्रियं कृतवान्नासि; मया च ते तव प्रतिकूलमप्रियं न कृतम् । अकारणं निष्कारणमेव, परस्परापकाररूपकारणाभा- वेऽपीत्यर्थः । क्रियाविशेषणमेतत् । विलपन्त्यै, त्वद्दर्शनार्थिन्या अपीति भावः । रतये किं कथं दर्शनं न दीयते ? क्रियाग्रहणाचतुर्थी ॥ ७ ॥

 विप्रियमाशङ्कते-

 स्मरसि स्मर ! मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् ।
 च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥८॥

 स्मरसीति ॥ हे स्मर ! गोत्रस्खलितेषु नामव्यत्यासेषु । 'गोत्रं नाभ्यचले कुले' इति विश्वः । मेखलागुणैर्बन्धनं स्मरस्युत स्मरसि वा ? 'विकल्पे किं किमूत च' इत्यमरः । च्युतकेशरैर्धष्टकिञ्जल्कैर्दूषिते ईक्षणे येषु तान्यवतंसोत्पल- ताडनानि, सधूलिक्षेपताडनानीत्यर्थः । स्मरसि वा ? अपकारस्मरणादिदमदर्श- नमिति भावः ॥ ८॥

 हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
 उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥९॥

 हृदय इति ॥ 'हृदये वससि' इति स्मरवाक्यानुवादः । इत्येवंरूपं मत्प्रियं यदवोच उक्तवानसि । ब्रूजो लुङि 'वच उम्' (पा. ७।४।२०) इत्युमागमः । तत्कैतवमवैमि मिथ्येति मन्ये । इदं वचनमुपचारपदं परस्य रञ्जनार्थं यदसत्य- भाषणं स उपचारस्तस्य पदं स्थानम् , कैतवस्थानमिति यावत् ; न चेत्त्वमन-


पाठा०-१ ताडनानि च. टिप्प०-1 रघुवंशगतोऽजविलापः कुमारसंभवगतो रतिविलापश्चेति करुणरसपरि- प्लुतं विभिन्नभूमिकमप्येतद्विलापद्वयमविभिन्नकल्पनोपमाशब्दप्रयोगादिभिः कविकालिदासः सम्यग्भणितवान् । तत्र श्लोकेनानेन ‘मनसापि न विप्रियं मया कृतपूर्व' (रघु० ८।५२) इति श्लोको हि सर्वथार्थसाम्यमासादयति। 2 श्लोकेनानेन समं 'इयमप्रतिबोधशायिनी

रशना' (रघु० ८१५८) इति श्लोकस्तुलनामर्हति ।