पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
[ सर्गः ४
कुमारसंभवे

 अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः।
 बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग ! मोक्ष्यति ॥ १३ ॥

 अवगम्येति ॥ हे अनङ्ग अशरीर! प्रियबन्धोः प्रियसखस्य तव वपुः शरीरं कथीकृतमकथा कथा संपद्यमानं कृतं शब्दमात्रावशिष्टमवगम्य ज्ञात्वा निष्फलो. दयः उद्दीप्याभावादुद्दीपनवैफल्यमिति भावः । निशाकरश्चन्द्रो बहुले कृष्णपक्षे गतेऽपि तनुतां काश्यं दुःखं यथा तथा कृच्छ्रान्मोक्ष्यति, वृथा वृद्धिरिति दुःख- यिष्यत इत्यर्थः ॥ १३ ॥

 हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।
 वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ १४ ॥

 हरितेति ॥ हरितं चारुणं च । 'वर्णो वर्णेन' (पा. २।१।६९) इति तत्पुरुषः । हरितारुणं चारु बन्धनं वृन्तं पुङ्खश्च यस्य स तथोक्तः। कलेन मधुरेण पुस्को- किलशब्देन पुरुषकोकिलनादेन सूचितोऽनुमापितश्च । चूतचर्वणकार्यस्वारकल- शब्दस्येति भावः । नवचूनप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्वं गमिष्यति वद; अन्यस्य पुष्पबाणस्याभावादिति भावः ॥ १४ ॥

 अलिपङ्त्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
 विरुतैः करुणखनैरियं गुरुशोकामनुरोदितीव माम् ॥ १५ ॥

 अलीति ॥ त्वयाऽनेकशो बहुशो धनुषः कार्मुकस्य गुणकृत्ये मौर्वीकार्ये गुण- वत्कर्मणि च नियोजिताधिकृतेयमलिपङ्त्तिः करुणस्वनैर्दीनस्वनैर्विरुतैः कूजितैर्गुरु- शोकां दुर्भरदुःखाम् । 'गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे' इति शब्दा- र्णवः । मामनुरोदितीव । उपसर्गात्सकर्मकत्वम् । 'रुदादिभ्यः सार्वधातुके' (पा. ७।२।७६) इतीडागमः ॥ १५ ॥

 प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः ।
 रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ १६ ॥

 प्रतिपद्येति ॥ तावत्पुनरपि मनोहरं वपुः शरीरं प्रतिपद्य प्राप्योत्थितः सन् ।


पाठा०-१ चारुपल्लवः. २ स्वरैः. ३ परपुष्टा.