पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमारसंभव - महाशिवपुराणयोः ६ गुरुः प्रगल्भेऽपि वयस्यतोऽस्या- स्तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर्न हि मन्त्रपूत- मर्हन्ति तेजांस्यपराणि हव्यम् । अयाचितारं न हि देवदेव- मद्रिः सुतां ग्राहयितुं शशाक | अभ्यर्थनाभङ्गभयेन साधु- मध्यस्थ्यमिष्टेऽप्य वलम्बतेऽर्थे । यदैव पूर्वे जनने शरीरं सा दक्षरोषात्सुदती ससर्ज । ताप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् । कररेखा ब्रह्मलिपिर्न मृषा भवति ध्रुवम् । तादृशोऽस्याः पतिः शैल ! भविष्यति न संशयः । तादृशोऽस्ति वरः शम्भुललारूपधरः प्रभुः । कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः । प्रभौ दोषो न दुःखाय दुःखदोऽस्य प्रभौ हि सः । रविपावकगङ्गानां तत्र ज्ञेया निदर्शना । तस्माच्छिवाय कन्यां स्वां शिवां देहि विवेकतः । हिमालय उवाच- हे मुने नारद ! प्राज्ञ ! विज्ञप्ति कांचिदेव हि । करोमि तां शृणु प्रीत्यातस्त्वं प्रमुदमावह । श्रूयते व्यक्तसंगः स महादेवो यतात्मवान् । तपश्चरति सन्नित्यं देवानामप्यगोचरः | स कथं ध्यानमार्गस्थः परब्रह्मर्पितं मनः | भ्रंशयिष्यति देवर्षे | तत्र मे संशयो महान् । अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते । इति स श्रूयते नित्यं किन्नराणां मुखान्मुने ! | नारद उवाच- न वै कार्या त्वया चिंता गिरिराज ! महामते । एषा तव सुता काली दक्षजा ह्यभवत्पुरा | सती नामाभवत्तस्याः सर्वमङ्गलदं सदा । सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत् । पितुर्यज्ञे तथा प्राप्यानादरं शङ्करस्य च । तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती । पुनः सैव समुत्पन्ना तव गेहेऽम्बिका शिवा । पार्वती हरपत्नीयं भविष्यति न संशयः । ब्रह्मोवाच- वर्धमाना गिरेः पुत्री सा शक्तिकपूजिता । अष्टवर्षा यदा जाता हिमालयगृहे सती ।