पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साम्यनिदर्शक: संदर्भः दृष्ट्वा मुने ! गिरीशस्त्वां नत्वानर्च स नारदः । आहूय च स्वतनयां त्वदङ्मयोस्तामपातयत् । पुनर्नत्वा मुनीश ! त्वामुवाच हिमभूधरः | हिमालय उवाच- हे मुने ! नारद ! ज्ञानिन्ब्रह्मपुत्रवर प्रभो ! | मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् । कस्य प्रिया भाग्यवती भविष्यति सुता मम ? | ब्रह्मोवाच- इत्युक्तो मुनिवर्य ! गिरीशेन हिमाद्रिणा । विलोक्य कालिकाहस्तं सर्वाङ्गं च विशेषतः । अवोचस्त्वं गिरं तात! कौतुकी वाग्विशारदः | ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः | नारद उवाच- एषा ते तनया मेने सुधांशोरिव वर्धिता | तां नारदः कामचरः कदाचि- कन्यां किल प्रेक्ष्य पितुः समीपे । आद्या कला शैलराज ! सर्वलक्षणशालिनी । समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य । स्वपतेः सुखदायन्तं पित्रोः कीर्तिविवर्धिनी । सुलक्षणानि सर्वाणि त्सुतायाः करे गिरे ! | एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः | योगी नग्नोऽगुणोऽकामी मातृतात विवर्जितः । अमानोऽशिववेषश्च पतिरस्याः किलेशः । ब्रह्मोवाच - इत्याकर्ण्य वचस्ते हि सत्यं मत्वा च दम्पती । मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः । उवाच दुःखितः शैलस्त्वां तदा हृदि नारद ! | किमुपायं मुने ! कुर्यामतिदुःखमभूदिति । नारद उवाच स्नेहाच्छृणु गिरे ! वाक्यं मम सत्यं मृषा न हि ।