पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३२-३७]
६१
वसन्तर्तुजनितजंगमविकारवर्णनम्

प्रकृतेराकाल आदेशश्च निपातितः। 'टिड्डाणञ्-' (पा.४।१।१५) इत्यादिना डीप् । केचिदकालाद्देहादध्यात्मादित्वाद्भवार्थे ठगित्याहुः । तामाकालिकीं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्धविकाराणां मनसां कथंचिदीशा नियन्तारो बभूवुः ॥ ३४ ॥

 तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
 काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ ३५ ॥

 तमिति ॥ आरोपितमधिज्यं कृतं पुप्पचापं येन तस्मिन्नतिर्द्वितीया यस्य तस्मिन्नतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्राप्ते सति, द्वन्द्वानि स्थावराणि जंगमानि च मिथुनानि, काष्टोत्कर्षः। 'काष्टोत्कर्षे स्थितौ दिशि' इत्यमरः । तां गतो यः स्नेह इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः । 'प्रेमा ना प्रियता हादं प्रेमः स्नेहः' इत्यमरः । स एव रसस्तेनानुविद्धं संपृक्तं भावं रत्याख्यं शृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवव्रुः प्रकटीचक्रुः, शृङ्गारचेष्टाः प्रावर्तन्तेत्यर्थः ॥ ३५ ॥

 ताश्चेष्टा आह 'मधु' इत्यादिभिश्चतुर्भिः-

 मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
 शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।। ३६ ॥

 मध्विति ॥ द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः—'शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते, यथा भ्रमरशब्दस्य द्विरेफत्वाविरेफो भ्रमरः' इति । कुसुममेवैकं साधारणं पात्रं तस्मिन् , मधु मकरन्दम् । 'मधु मद्ये पुष्परसे' इति विश्वः । स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन् पपौ, तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शबलश्च कृष्णसारः कृष्णमृगः। 'वर्णो वर्णेन' (पा.२।११६९) इति समासः । स्पर्शेन स्पर्शसुखेन निमीलिताक्षीं मृगीं शृङ्गेणाकण्डूयत घर्षितवान् । 'कण्ड्वादिभ्यो यक्' (पा.३।१।२७) इति यक् । ततः कर्तरि लङ् ॥ ३६ ॥

 ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूपजलं करेणुः ।
 अर्धोपमुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥३७॥


पाठा०-१ संस्पर्श. २ सरःपङ्कज.