पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
[ सर्गः ३
कुमारसंभवे

शब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ता वनस्थलीर्विचेरुर्वनप्रदेशेषु चरन्तिस्म । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' (ह० का०) इति चरतेः सकर्मकत्वम् ॥ ३१ ॥

 चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
 मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ।। ३२ ॥

 चूताङ्कुरेति ॥ चूताङ्कुराणामास्वादेन कषायकण्ठो रक्तकण्ठः । 'रसभावपटौ रक्ते कषायः' इति केशवः । पुमान्कोकिलः पुंस्कोकिलः । पुंग्रहणं प्रागल्भ्यद्योतनार्थम् । 'मधुरं चुकूजे' इति यत्तत्कूजनमेव मनस्विनीनां मानविधाते रोषनिरासे दक्षं स्मरस्य वचनं 'मानं त्यजत' इत्याज्ञावचनं जातम् , कोकिलकूजितश्रवणानन्तरं स्मराज्ञप्ता इव मानं जहुरित्यर्थः ॥ ३२ ॥

 हिमव्यपायाद्विशदाधराणामापाण्डरीभूतमुखच्छवीनाम् ।
 स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ ३३ ॥

 हिमेति ॥ हिमस्य व्यपायादपगमाद्विशदा नीरुजा अधरा ओष्ठा यासां तासामापाण्डरीभूतमुखच्छवीनाम् , कुङ्कुमपरिहारादिति भावः । किंपुरुषाङ्गनानां पत्रविशेषकेषु पत्ररचनासु स्वेदोद्गमः पदं चक्रे, धर्मोदयात्स्वेदोदयोsभूदित्यर्थः । विशदाधरत्वं मधूच्छिष्टराहित्यादिति भावः । हेमन्तेषु नार्यो बिम्बोष्ठेषु मधूच्छिष्टं शीतभयाद्दधतीति प्रसिद्धम् ॥ ३३ ॥

 तपखिनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
 प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ॥३४॥

 तपस्विन इति ॥ स्थाणोर्वनमोको येषां ते तपस्विनस्तत्रत्या मुनयः । समाकाल आद्यन्तावस्या आकालिकी। अकालभवत्वादुत्पत्त्यनन्तरविनाशिनीभित्यर्थः । 'आकालिकडाद्यन्तवचने (पा.५।१।११४) इति समानकालादिकट्प्रत्ययः,


पाठा०-१ आपाण्डरीभूत.


टिप्प०-1 'हिमेनोष्ठा अभिहता विकीर्णाश्च भवन्तीति प्रसिद्धम् । ननु आकस्मिकवसन्तप्रवृत्तेः पूर्वं कथं तुषारधर्मवर्णनम् १ सत्यम् ; पूर्वरूपक्षयमात्रेऽसमयत्वमभिधायानन्तरं

सामान्यरूपेण वर्णनमित्यदोषः' इति बाल०।