पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
[ सर्गः ३
कुमारसंभवे

 ददाविति ॥रसादतिरागात् करेणुः करिणी । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । पङ्काज्जायत इति पङ्कजं तस्य रेणुः पङ्कजरेणुः, तस्य गन्धोऽस्यास्तीति पङ्कजरेणुगन्धि गण्डूषजलं मुखान्तर्धृतजलं गजाय ददौ । रथाङ्गनामा चक्रवाकोऽध यथा तथोपभुक्तेनार्धजग्धेन बिसेन जायां संभावयामास, स्वजग्धशेषं ददावित्यर्थः ॥३७॥

 गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छवासितपत्रलेखम् ।
 पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चुचुम्बे ॥ ३८ ॥

 गीतान्तरेष्विति ॥ किंपुरुषः किंनरः श्रमवारिलेशैः स्वेदोदबिन्दुभिः किंचिदीषत्समुच्छवासिता विश्लेषिताः पत्रलेखा यस्य तत् । पुष्पाणामासवो मद्य पुष्पासवः, पुष्पोद्भवमद्यमित्यर्थः । वसन्ते मधूकस्य संभवात् । पुष्पवासितमिति केचित् । तेनाघूर्णिताभ्यामुभ्द्रान्ताभ्यां नेत्राभ्यां शोभत इति तथोक्तं प्रियामुखं गीतान्तरेषु गीतमध्येषु चुचुम्बे चुचुम्ब ॥ ३८ ॥

 पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः ।
 लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ ३९ ॥

 पर्याप्तेति ॥ पर्याप्ताः समग्राः पुष्पस्तबका एव स्तना यासां ताभ्यः । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (पा. ४११:५४) इति चिकल्पान ङीष् । स्फुरन्तः प्रवालाः पल्लवा एवौष्ठास्तैर्मनोहराभ्यो लता एव वध्वस्ताभ्यः सकाशात्तरवोऽपि। लिङ्गादेव पुंस्त्वं गम्यते। विनम्राः शाखा एव भुजास्तैर्बन्धनान्यवापुः, ताभिरालिङ्गिता इत्यर्थः । स्थावराणामपि मदनविकारोऽभूत् , किमुतान्येषामिति भावः। एतच्च तरुलतानामपि चेतनत्वादुक्तम् । यथाह मनुः (१।४९)- 'अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः' इति । अत्र रूपकालंकारः ॥ ३९ ॥

 श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
 आत्मेश्वराणां न हि जातु विनाः समाधिभेदप्रभवो भवन्ति ॥४०॥


पाठा०-१ चुचुम्ब. टिप्प०-1 श्लोकेनानेन 'सज्जितानि सुरभीण्यथ यूनामुल्ललन्नयनवारिरुहाणि ।

आययुः सुमधुराणि सुरायाः पात्रतां प्रियतमावदनानि ॥' इति माघ (१०११) श्लोकस्तुलनामहति ।