पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८७) J शब्दे विसर्गाने कृत्रिमता आगच्छति या सुस्पष्टा अस्ति । वस्तुतः यथा नाम तथा उच्चारणं भवेत् । अनेन सुधारेण संस्कृत- भाषाया. अयं दोषः कृत्रिमता वा दूरीभवितुं अर्हति । वयं कामयामद्दे यत् संस्कृते कश्चित् दीर्घसुधार. शनैः शनैः आगच्छेत् क्रियेत वायेन प्राचीन संस्कृतेन ' प्रचलित- संस्कृतेन वा सहसा सम्बन्धविच्छेदः न स्यात् । अत एव संस्कृत भाषायां अयं सुधार: २५ वर्षानन्तरं क्रियेत । वयं विचारयाम. यत् अयं सुधारः स्वत एव एतावत्कालानन्तरं आगमिष्यति । विपरीत न भवितुं अर्हति । इयं अस्ति अस्माकं अन्तिमा भविष्यवाणी या ईश्वरकृपया प्रेरणया च मिथ्या भवितु न अति । पूर्वेषामपि अन्ते वयं वारं वार प्रार्थयामद्दे यत् ईश्वरः यः " गुरु का लेनान्तरच्छेदात् " अस्मभ्यं सर्वेभ्यः संस्कृतभ्यः शकिं प्रद्यात् येन वयं वेदे देववाण्याः लोके अमरभारत्याः सत्सेवां कर्तुं शक्नुवाम, दुराग्रहं 'मिथ्या गर्वे च ' विहाय । एवमस्तु । ओ३म् शम् ।