पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८६) आस्ति यत् भारतीय विदुषां घोषणामात्रेण व्यवहारेण च संस्कृतं अद्य भाषणभाषा राष्ट्रभाषा च भवितुं अर्हति । संस्कृतव्यवहारे पठनपाठने च संस्कृत - काठिन्यं एव एका महंती चाधा | तस्याः दूरीकरणे संस्कृतं स्वत एव राष्ट्रभाषा भविष्यति । संस्कृत- भाषायां भारतीयानां विदेशीयानां च महती श्रद्धा, पूज्यभावः च अत एव तस्याः राष्ट्रभाषात्वे विलम्बः न भविष्यति । पञ्च वर्षे तु संस्कृतं राष्ट्रभाषा भविष्यात एव यदि इमानि आवश्यकसंशो- ● धनानि विद्वद्भिः स्वीकृतानि । तु . अन्तिमः सुधारः । अन्तिमः सुधारः 'विसर्गादर्शनम्' संस्कृतभाषायां २५ वर्षा- नन्तरं आगन्तुं शक्नोति । कारणं इदं अस्ति यत् अस्य सुधारस्य स्वीकरणे संस्कृतव्याकरणे कश्चित् विशेषसुधार आवश्यकः भविष्यति । विद्वांसः इदं कार्य अपि कर्तुं शक्नुवन्ति, परं अस्मिन् दीर्घकालः लगितुं शक्नोति । इदानीं संज्ञासु क्रियासु विसर्गः तिष्ठेत् यथा विद्यते । अस्मिन् विषये एकांशे सुधार भवितुं अर्हति । विशेषनाम-स्थानसंज्ञासु विसर्गलोपं मन्येत येन विशेषपुरुष - विशेषस्थान नाम्नां उच्चारणं तेषां पठनपाठनं । वा सम्यग्रूपेण भवेत् । तेषां सर्वेषां प्रातिपदिकरूपे प्रयोगः कार्य्यः । अस्मिन् सम्बन्धे अनेकानि उदाहरणानि दत्तानि अस्माभिः | 1 यथा जवाहरलाल स्टेलिन, पटेल इत्यादीनि नामानि विद्यन्ते तदा तेषां उच्चारणं स्वरूपे भवेत् । अस्माकं अयं आशय: । एनमेव विशेषस्थानवाचकसंज्ञानां विषये अपि करणीयम् यथा वनारस, प्रयाग, उन्नावेत्यादिनामानि । यत्र बनारस नाम विद्यते तत्र 'बनारसः' इति कथनं अनावश्यकम् । € , बनारस 6 ,