पृष्ठम्:कीदृशं संस्कृतम्?.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१८४)

संस्कृतभाषायां कथ्यते 'जवाहरलालः' तथा 'जवाहरलालो' आप सन्धिकरणे यथा 'जवाहरलालो गच्छति । हास्यास्पदं इदं सर्वम्। संस्कृतज्ञाः स्वयं स्वसन्ततीनां नामानि विसर्गरहितानि रक्षन्ति यथा 'श्यामलाल' 'रामलाल' 'गिरिधरगोपाल' इत्यादीनि नामानि । अनेन सिद्ध्यति यत् प्रातिपदिकेषु अर्थात् अर्थवच्छन्देपु एकवचने 'सुप्' विभक्तिदानं एकः कृत्रिमोपायः । प्रातिपदिकांनि सर्वाणि एकवचने भवन्ति, भवितुंअर्हन्ति एव अतएव तानि सर्वाणि स्वरूपे तिष्ठन्तु । अनेन संस्कृते अपि स्वाभाविकता आगमिष्यति यथा संसारस्य सर्वासु भाषासु विद्यते । 'संस्कृत' एका निर्मिता भाषा कृत्रिमोपायैः, अत एव यथासाध्यं कृत्रिमोपाया: दूरीकर - णीयाः, परं तस्य आधाराः न विनाशनीयाः । संस्कृतस्य आधारः तु वेदभाषा, वेदवाणी वा अस्ति । स आधारः न नश्येत् अयं सदा एव स्मरणीयः । अस्माभिः इदं कार्य एव क्रियते । वारं चारं कथितं अस्माभिः यत् कृत्रिमता, कठिनता, जटिलतेत्यादि- दोषाणां दूरीकरणे, वयं संस्कृतस्य आधारस्य नाशं न कामया- महे । अस्माकं सद्भावस्य सदुद्देश्यस्य शुभेच्छाया: इदं एव एकं प्रमाणम् । अत एव संशोधनानि संस्कृत- रक्षणाय पव करणीयानि । ● ( २ ) द्वितीयः उपाय: संस्कृतस्य कृत्रिमता, कठिनतेत्यादि दूरीकरणाय अस्ति यत् दशलकारेषु केवलं चतुर्लकाराः तिष्ठेयुः, अद्यतन - अनद्यतन भेदं दूरीकृत्य । अयं कृत्रिमभेदः तु स्थातुं न शक्नीति, यदि संस्कृतशाः इच्छन्ति यत् संस्कृतं राष्ट्रभाषा विश्व- भाषा च भवेत् पूर्ववत् । ( ३ ) तृतीयः उपायः अयं यत् संघासु एवमेव क्रियासु द्विवचनं निस्सारणीयम् | वचनेषु कृग्रिमवचनं इदं अर्थात् द्विवचनं यथा