पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८२) एव यत् यत् संस्कृतव्याकरणे दत्तं येन संस्कृतं जटिलं कठिनं जातं तत्सर्व दूरीकरणीयं भविष्यति । तावत्पर्यन्तं संस्कृतस्य राष्ट्रभाषा- त्वं विश्वभाषात्वं च एका मिथ्या कल्पना एव, स्वप्नः एच, वन्ध्यायाः पुत्रवत् आकाशकुसुमवत् । इदं तथ्यं संस्कृतज्ञैः अपि हृदयाङ्गीकरणीयं यत् सर्वांसु जीवित- भाषासु यथावश्यकतानुसारं समये समये संशोधनं भवति, अत एव संस्कृते अपि भाव्यम् । लौकिक संस्कृतं अपवादः भवितुं न अर्हति । सखेदं अहं निवेदयामि यत् संस्कृतज्ञानां अयं मद्दान् दोषः यत् ते आवश्यकं, अनावश्यकं, उचितं, अनुचितं, सारसहितं सारहितं वा सर्व ऋषि-मुनि-प्रणीत भ्रान्तिरहितं मन्यन्ते । परं मनुष्यज्ञानं दोपसहितं अपि भवितुं अर्हति । इदं अपि सम्भव अस्ति यत् प्राचीनाचार्यैः किञ्चित् वार्त्तिकं कश्चित् नियमः वा स्वसमयस्य आवश्यकतानुसार दत्त. यः अद्य न लगति, तदा तस्य संशोधने का हानिः । भगवान् मनुः उपदिशति यत्- या वेदवाह्याः स्मृतयो याश्च याश्च कुदृष्ट्रयः । सर्वास्ताः निष्फलाः प्रेत्य तपो निष्ठा हि ताः स्मृताः ॥ ( मनु० अध्या. १९, लो. ९५ ) आप धर्मोपदेशं च वेदशास्त्राविरोधिना | यस्तर्केण नुसघत्ते स धर्म वेद नेतरः || (मनु० अध्या. १२, लो, १०६ ) व्यास्या-- द्वौ आदेशौ क्रियेते । प्रथमः उपदेशः यत् दयाह्याः स्मृतयः सर्वथा त्याज्याः वेदस्य स्वतः प्रमाणत्वात् । अनेन सिद्धयति यत् वद्धयः स्मृतयः वेदेवाह्याः भवितुं अर्हन्ति । अघ पण्डिताः भगवतः वेदान् न जानन्ति अत एव तेषां कृते सर्वाः