पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७८) , वलेन 'रामाः ' पदस्य विसर्गस्य लोपं मन्येत । तदा बहुवचने 'रामा' इति पदं भविष्यति । एवमेव अन्येषु स्थलेषु कल्पनीयं, यत्र विसर्गस्य प्रयोगः भवति । संस्कृतभाषातः कृत्रिमता दूरीकरणाय अस्माकं विशेषनिवेदनं इदं अस्ति । यावत् संस्कृतभाषातः इयं कृत्रिमता न दूरीभवति तावत् तस्याः कठिनता अपि दूरीभवितुं न अर्हति । अत एव कठि- नता - दूरीकरणाय कृत्रिमता दूरीकरणीया । अस्माकं विचारे इयं कृत्रिमता संस्कृतभाषातः दूरीकरणाय त्रयः उपायाः अवल- म्बनीयाः -- - उपायाः । ( १ ) प्रथमं तु प्रातिपदिकानि पदसंज्ञकानि गृहीतानि स्युः यथा संसारस्य सर्वासु भाषासु भवति । इयं स्वाभाविकी स्थितिः । स्वाभाविकता भाषायाः महान् गुणः, अस्वाभाविकता, कृत्रिमता वा भाषायाः महान् दोषः । अत एव इदं संशोधनं करणीय एव । अनेन संस्कृतव्याकरणे भाषायां च सारल्यं आगमिष्यति । इदं आमूलचूडपरिवर्तनं अपि न विद्यते। केवलं शब्दानां एकवचने किञ्चित् परिवर्तनं स्थास्यति यथा 'रामः' स्थाने ' राम ' इति पदं मस्यते । (२) द्विवचनं निस्सारितम् । अतएव बहुवचने 'राम' शब्दस्य राम+जस्' इदं रूपं भविष्यति । ' 'चुदू' १।३।७ व्याख्या - प्रत्ययाचौ चुटू इतौ स्तः । --- अनेन 'राम+अस्' इदं रूपं अभवत् । तदा 6 .. विभक्ति' व्याख्या - सुप्तिही विभकिसंज्ञा स्तः । -- १९४१०४