पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७६) चेतः । अत एव इदं सर्व विचारणीयं विद्वद्भिः। यत्, यत् देश- भाषा- जाति - हिताय स्यात् तत् एव निस्स्वार्थभावेन करणीयम् । अन्यथा समय:, देशपरिस्थिति बलात् कारयिष्यति, अथवा काले ईश्वरप्रेरणया, ईश्वरेच्छया तत्सर्व भविष्यति । , ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया || ( गता अ. १८, लो. ६१ ) अस्यां अवस्थायां कथित-जगद्गुरूणां विदुषां शिरसि कलङ्कः लगिष्यति । लार्किक-संस्कृतोत्थाने तु विद्वद्भिः प्रयत्नः करणीयः | वेदः तु स्वत एव स्थास्यति । ईश्वरस्य ज्ञानं तु तत् देवताभिः रक्षितम् । लोके ॠाप - मुनि ज्ञानं लौकिक: रक्षितं स्यात् । इयं परम्परा | लोके' विसर्गादर्शनम्' इति सूत्रस्य कः अर्थः किं प्रयोनजम्? संस्कृतभाषायां विसर्गस्य स्थाने स्थाने प्रयोगः भवति । एतावान् प्रयोगः कस्याञ्चित् अपि भाषायां न भवति । कारणं किम् ? कृत्रिमः उपायः अयम् | संसारस्य सर्वासु भाषासु प्रातिपदिक रूपे शब्दः ' पद ' इति मन्यते । वस्तुतः अर्थवान् शब्दः पद- वाच्यः भवितव्यः परं संस्कृतभाषायां इदं न भवति । कि प्राति पदिकं संस्कृतव्याकरणानुसारं । ' अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । ( १ ।२।४५ ) व्याख्या - धातुं प्रत्यय प्रत्ययान्तं च वर्जयित्वा अर्थवच्छन्द- स्वरूपं प्रातिपदिकसंज्ञं स्यात् । संस्कृतव्याकरणानुसारं ' पदं' किं भवति, 'सुप्तिङन्तं पदम्' । ॥ १।४।१४) व्याख्या- सुबन्तं तिङन्तं च पदसंशं स्यात् ।