पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७४) चलितुं चतुर्थाध्याये च पूर्णतया स्पष्टीकृतं अस्माभिः यत् द्विवचन संसारस्य प्रायः सर्वासु भाषासु न विद्यते एकां द्वे वा भाषे न विहाय । इदं अपि सुस्पष्टीकृतं अस्माभिः यत् दशलकाराः सर्वथा अनावश्यकाः । केवलं चतुर्लकारैः अस्माकं कार्य शक्नोति यथा अन्यासु भाषासु भवति । संस्कृतव्याकरणे एकः अन्यः अपि उपायः भूतकालस्य अवबोधनाय विद्यते । 'लट् लकारे ' स्म' शब्दस्य प्रयोगः क्रियते यथा ' स गच्छतिस्म' 'ते गच्छन्तिस्म' इत्यादयः । अनेन स्पष्टं भवति यत् त्रिलकारैः अपि कार्य चलितुं शक्नोति । , 1 , इदं तृतीयाध्याये सुस्पष्टीकृतं अस्माभिः यत् द्विवचनं निस्सार्य चतुर्लंकारपु केवलं ३८४ रूपाणि भविष्यन्ति, २५१२ रूपाणां स्थाने, एकस्य धातोः | ३८४ रूपाणि तु कश्चित् अपि पुरुषः कण्ठस्थीक शक्नोति । इमानि ३८४ रूपाणि अपि न्यूनानि भवितुं अर्हन्ति यदि सारल्यार्थे 'लट् लकारे 'स्म' शब्दस्य प्रयोगः क्रियेत भूतकालस्य अववोधनाय | संस्कृतज्ञाः इच्छन्ति चेत् यत् संस्कृतं व्यावहारिकी भाषा राष्ट्रभाषा च भवेत् तदा द्विवचनं अवश्यमेव निस्सारणीयम् | कृत्रिमः वचन - विषयकनियमः अयम् | यदि द्विवचनं स्यात् तदा त्रिवचनं, चतु- वचनं इत्यादिकं कथं न स्यात् । तृतीया भविष्यवाणी इयं यत् द्विवचनं क्रियासु स्थातुं न शक्नोति । (३) चतुर्थाध्याये संज्ञानां विषये सुस्पष्टीकृतं अस्माभिः यत् विशेष-नाम-स्थानादिसंशासु केवलं एकवचने रूपाणि भवितुं अर्हन्ति । द्विवचनं तु संज्ञासु अपि स्थातुं न शक्नोति यथा कियासु । यानि यानि प्रमाणानि द्विवचनस्य निस्सारणाय दत्तानि अस्माभिः तानि सर्वत्र लगन्ति अर्थात् कियासु एवमेव