पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६४) ( ४ ) "विसर्गादर्शनम्" - व्याख्या - अस्य सूत्रस्य व्याख्या अस्मिन् अध्याये दीयते । अहं विचारयामि यत् अयं सुधारः स्वत एव संस्कृते २५ वर्षा नन्तरं आगमिष्यति । तदा भविष्यति संस्कृतस्य सर्वकालीनं तस्मिन् रूपे एव संस्कृतं विश्वभाषा - भविष्यति रूपम् । पूर्ववत् । शतृप्रत्ययान्तः शब्दः अव्ययं मन्येत । इमानि मुख्यसंशोधनानि सन्ति । अन्यानि अपि संशोधनानि सन्ति यानि अस्मिन् पुस्तके दीयन्ते । अस्माकं विचारानुसारं इदं अपि आवश्यकं संशोधनं अस्ति यत् शतृप्रत्ययान्तः शब्दः अव्ययरूपे तिष्ठेत् यथा तुमुन् क्त्वा - णमुल् अव्ययरूपाः मन्यन्ते । अस्मिन् सम्बन्धे इदं शतृप्रत्ययान्तः शब्दः क्रियारूपेण तिष्ठति अर्थात् अयं तु क्रियारूपः भवति । अन्या अपि क्रिया भवति एव । साम्प्रतं अनेन प्रकारेण लिख्यते, प्रत्ययान्ताः शब्दाः कारणं आस्ति । (१) स गच्छन् आसीत् । (२) सा गच्छन्ती आसीत् । (३) वायुयानं गच्छत् आसीत् । अत्र गच्छन्, गच्छन्ती, गच्छत् शब्दाः क्रियारूपेण तिष्ठन्ति । स्वयं गच्छन्, गच्छन्ती, गच्छत् क्रियारूपाः शब्दाः सन्ति, परं यावत् काचित् अन्या किया वाक्येन दीयते तावत् अर्थपूर्त्तिः न भवति । वस्तुतः अत्र गच्छन्, गच्छन्ती, गच्छत् शब्दाः विशेषणानि न सन्ति यानि अद्य मन्यन्ते । इदं अन्यासु भापासु अपि न अवलोफ्यते । अत एव अस्माकं विचारानुसारं शतृ-