पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनेन योगिनां सद्वचनेन सिद्धयति यत् ईश्वरधर्मस्य एवमेव तस्याः भाषायाः यस्यां अयं धर्मः विद्यते नाशः भवितुं न अर्हति । मनुष्यैः तु अवश्यमेव इंदशानि कार्याणि क्रियन्ते येन ईश्वर- वस्तूनां अपि नाश. निकटतमः आगच्छेत् परं ईश्वरप्रेरणया देवतामिः तेषां रक्षा युगे युगे क्रियते । स युगः आगतः अस्ति, अत एव नवीनयुगारम्भः भवति एव । यत् किञ्चित् अत्र दीयते तत्सर्वमेव ईश्वरप्रेरणया। दीर्घकालपर्यन्तं गम्भीरतया मनो- योगेन च इदं विचारितं अस्माभिः यद संस्कृतस्य कथं कल्याणं भवितुं अर्हति ? शनैः शनै ईश्वरकृपया उद्बोधनं सञ्जातं यत् मुख्यतः अत्र चतुर्पु सूत्रेषु दीयते - - (१) "असंहिता - चाक्ये" व्याख्या - वाफ्येषु संहिता कदापि न कार्य्या | वाक्यपदानि स्वरूपे तथा पृथक् पृथक् तिष्ठन्तु । अयमेव एकः कल्याणकरः मार्गः, येन संस्कृतस्य सारल्यकारणात् महीयान् प्रचारः भवितुं अर्हति । (२) " द्विवचननिस्सारणम् चत्वारि मूत्राणि | व्याख्या- संज्ञासु क्रियासु द्विवचनस्य आवश्यकता न विद्यते, अत एव द्विवचनस्य निस्सारणं क्रियेत । - - ( ३ ) "चतुर्लकारा:" व्याख्या संस्कृतभाषायां केवलं चतुर्लफाराः स्युः, अथांग लट् लट् लड् लिए ( विध्यादौ तथा हेतुहेतुमद्भायादी ) ।