पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६२) इयं अस्ति यत् संस्कृतं सर्वासां भाषाणां जननी अस्ति । प्रायः सवै विद्वद्भिः इदं मन्यते । द्वितीया वार्त्ता इयं अस्ति यत् सांस्कृतिकसभ्यतायाः प्रसारात् एव विश्वे चिरा शान्तिः भवितुं अर्हति । भारतीयः अध्यात्मवादः लोके प्रख्यातः । इदं सर्व संस्कृतसाहित्ये भाषायां वा विद्यते, अन एव सर्वजनानां कृते संस्कृतस्य पठनपाठन आवश्यक जायते । विदेशीयाः अपि इदं स्वीकुर्वन्ति । दुखदः अयं समाचारः यत् संस्कृतस्य भारते वर्षे एतावान् प्रचारः न विद्यते यावान् भवितव्यः । देशस्य कस्मिन् अपि भागे संस्कृतभाषा अद्य भाषणभाषा, राजभाषा च न अस्ति । केवलं पुस्तकीभाषा इथं या दुर्योधा काठना च विद्यते । अद्य कश्चित् अपि न विचारयति यत् कथं संस्कृतं सरलं सुवोधं भवितुं अर्हति । कानि कानि संशोधनानि आवश्यकानि सन्ति येन संस्कृतं भाषणभापा राष्ट्रभाषा च भवेत् । संस्कृत महाभवनस्य ये भग्नावशेषाः विद्यन्ते तेषु आवश्यकः सुधारः अपि न क्रियते । अत एव शनैः शनैः भवननाशः अवश्यम्भावी । संस्कृतज्ञैः कथित- विद्वद्भिः संकीर्णहृदयैः इदं क्रियते । वयं हस्तं हस्तोपरि धृत्वा अवलोकयामः संस्कृतनाशं वस्तुतः स्वनाशं विश्वनाशं च, परं किश्चित् अपि कर्त्तुं न शक्नुमः, अस्यां अवस्थायां एकं एव अवल- स्वनं अस्माकम् | देवानां एका प्रतिज्ञा पठिता अस्माभिः- "यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे । ( गीता म० ४; लो ७,८ )