पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५८) । प्रचारयेयुः । भारतीयं विधानं कृषकभाषायां लिखितं स्यात् इति न अहं वाञ्छामि, इति। " , } (५) पण्डितराजदेवनायकाचार्य, प्रधानमन्त्रिण, अखिल- भारतीय संस्कृतसाहित्य सम्मेलन, महोदयाः वदन्ति- - > - " भारतीयाः सर्वाः भाषा: संस्कृतात् उत्पन्ना अतः तासु तस्य शब्दाः अनिवार्यरूपेण प्रविष्टाः सन्ति । एतस्मात् कारणात् संस्कृतं अन्तरा न ताः स्थातुं शक्नुवन्ति, न उन्नति सम्पादयितुम् | न केवलं आसां भाषाणां उन्नत्यै, संरक्षणाय एव संस्कृतस्य आवश्य- कता किन्तु विभिन्नप्रान्तभाषा संस्कृतिसदाचारभावभूषादिभिः विभक्तस्य भारतस्य ऐक्यस्थापनाथ अपि । भारतीयतां विना भारत न स्थातुं शक्नोति । यदि भारतस्य स्वरूपावस्थानं भारतीयैः आवश्यकं मन्यते तर्हि संस्कृतभाषायाः राष्ट्रभाषात्वं ऊरीकरणीयं एव, इति । " (६) म. म. पं. गिरिधरशर्म्मा अध्यक्ष, अ०भा०संस्कृत साहित्य- सम्मेलन, महोदया. वदन्ति -- 66 संस्कृतं सर्वभाषाणां जननी......... संस्कृतं सर्वभाषाभ्यः पयः- पानं कारयित्वा न केवलं तासां वृद्धि एव आतनुते किन्तु तस्यां प्रजनशक्तिः अपि अस्ति। आश्चर्य इयं मृतभाषा इति उच्यते । आधुनिके विज्ञानमध्याह्ने अनेके विषयाः वर्त्तन्ते येषां संस्कृतं विना ज्ञानं असम्भवम् । एषु अध्यात्मं प्रधा- नम्। आत्मनानाय संस्कृतं आवश्यकं यत. स्वज्ञानं यदि न तिष्ठेत् तर्हि अवशिष्यते किम् ? असंरया ईश्वर वादिन्यः जातयः भारते विद्यन्ते परं ईश्वरस्य विश्व, विश्वचर, विश्वातीतरूपे क्वचिद्वर्णनं न आस्ते । किम् इमे सर्वे निरर्थकाः विषया. दूरीकरणया: ? 1