पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५६) अपि ग्रन्थाः विद्यन्ते । ज्योतिःशास्त्रं अपि एकं विज्ञानं एव । अस्माकं प्राचीनविज्ञानग्रन्थाः संस्कृत भाषायां विनिबद्धाः अत एव तेशं शानाय संस्कृतभाषायाः प्रचारस्य, राष्ट्रभाषात्वस्य च आव- श्यकता वरवर्त्ति एव । प्रयत्नेन किमपि असाध्यं न अस्ति । स्व- राज्यप्राप्तिः प्रारम्भे केन अनुमिता सा अभूत् एव । एवमेव संस्कृतस्य राष्ट्रभाषात्वं अपि सम्भव एव । जनानां यादृशी समूहा भविष्यति, तेषां राज्यं अपि तादृशं एव कार्य करिष्याते । अस्माकं अपि एतत् अभिमतं यत् संस्कृतभाषा संरक्षणया । यतः भारतीया संस्कृतिः तदायत्ता एव वर्त्तते । सनातनधर्मस्य स्तम्भाः अतिसुदृढाः तान् उत्पाटयितुं न कश्चित् अपि शक्तः । अवश्यं अधुना किमपि चाञ्चल्यं दृश्यते परं इदं न चिरस्थायि । इदं राज्यं न नेहरूराज्यं, न पटेलराज्यं किन्तु प्रजाराज्यं इति न विस्मरणीयम्, इति ।” ( ३ ) हिज़ एक्सेलेन्सी माननीय डा० कैलासनाथ काटजू वंगगवर्नराः वदन्ति - " अयं सन्तोषविषयः यत् साकवत्सरात् देशोन्नत्यै यतमा नानां जनानां चेतस्सु अस्याः प्राचीनभाषायाः कृते सानुरागः परिचयः समेधते । अहं भाषायाः प्रश्नं साम्प्रदायिकदृष्ट्या न पश्यामि । अस्माकं विशाला भारतीया संस्कृतिः मुख्यरूपेण संस्कृत- भाषायां विकसिता अभूत् । प्रान्तीयभाषाणां मूलाधारः संस्कृतम् । अनेन एव ताः पोप्यन्ते । कोटिकोटि-मानवानां दैनिकचर्यायां एतस्याः नियन्त्रणं वर्त्तते । संस्कृतं देशभापात्वेन अस्मत्समक्षं एति अंग्रेजी गच्छति, तथा गन्तव्यं एव तस्य स्थाने संस्कृतं कथं न गृहीतं स्यात् । संस्कृत साहित्याध्यात्मधर्मभाषा एव नास्ति प्रत्युत तत्कलाविज्ञानगणितायुर्वेदज्योतिपरसायनभाषा अपि