पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५५) अस्माक अयं विश्वास यत् कस्यचित् अपि देशस्य भाषा- चरित्रे अधिकं प्रकाशं आरोपयति । या भाषा शक्तिशालिनी, प्रेरणापूर्णा तस्याः भाषिण अपि तादृशाः भविष्यन्ति । एतद्वि- परीता या भाषा जटिला, अनाकर्षिका, दुरवबोधा च तद्भाषिणः अपि तादृशाः एव भविष्यन्ति । अस्मद्विचारे यस्यां भाषायां स्वभाव न अभिव्यज्यते तद्भाषिणः अपि स्वच्छाः न भविष्यन्ति एतत्फलस्वरूप एतादृशा जनाः यत्कार्यं करिष्यन्ति तत् अस्त- व्यस्तं एवं द्रक्ष्यते । देशभाषायां गुणद्वय अत्यावश्यकम् । प्रथम गुण. यत् भाषायाः आधार प्राचीन संस्कृतिः स्यात्, द्वितीय च अयं यत् सा भाषा समयेन सह परिवर्त्तमानानां, व्यापकानां, घातावरणानां अनु- कूलतां साध्येत, सिद्धयेत् च निर्वाधा। भाषायां वाह्यशब्दानां पाचनशक्त्या भवितव्य एव । यदि मत्तः पृष्ट स्यात् यत् भारतस्य सर्वतः महीयान् निधि कः ? सहि अहं वदिष्यामि संस्कृतभाषा तस्या साहित्यं च सस्कृत- भाषा अस्य देशस्य एका सजीवपरम्परा । अहं कामयिध्ये यत् कतिपयजनाः संस्कृतविद्वांस. भवेयु, संस्कृतसाहित्य मन्विष्य ततः उत्तमवस्तूनि आविष्कुर्यु, प्रकाशयेयुः च ते । अति सिधामहे वयं यत् संस्कृतस्य गुणगाथां गायन्तः अपि तस्य मौखिक एव सेवां कुर्मः। आदौ तु वयं संस्कृतस्य दिशि ध्यानं एव न दमः ।” (२) हिज्एक्सेलेन्सी माननीय माधव श्रीहरि अणे विहार प्रान्तगवर्नराः धदन्ति- "नवोदितस्वतन्त्रमारतीय राज्यीय ज्ञानविज्ञानयोः महती आवश्यकता । प्राचीन संस्कृतभाषाप्रन्येषु आधुनिक विज्ञानस्य