पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५४). क्लेशकमविपाकाशयैरपरासृष्टः पुरुषविशेपईश्वरः ॥२३॥ ': तत्र निरतिशयं सर्वशवीजम् ॥ २५ ॥

स. एप पूर्वेपामंपिगुरुः कालेनानवच्छेदात ' ॥२६॥

( पात. यो. सू: समाधिपाद:, २४- २६ ) + चेदभगवान् आदिशति यत्- • एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ - ( वा० य० ३१ ३ ) यद्यपि ईश्वरस्य परिमाणः न विद्यते, तथापि उपमारूपेण इदं कथ्यते यत् तस्य ईश्वरस्य चतुर्थाशे सृष्टेः सर्वे लोकलोकान्तराः विद्यन्ते । निखिलब्रह्माण्डं तस्य ईश्वरस्य चतुर्थाशमात्रम् | तस्याः शक्तेः त्रिभागाः अनन्ताः, सर्वस्याः रचनायाः वहिर्मोक्षरूपेण विद्यन्ते । एतादृश्याः शक्तेः महत्ता कल्पनातीता। परं इयं शंतिः सर्वज्ञतायाः अपि वजिम् । तस्याः शानं अपि अनन्तं सम्पूर्णम् । तंस्य ज्ञानस्य अंशमात्रं वेदः यः लोकहिताय सर्गे सर्गे दीयते । तज्ज्ञानं सत्यं सम्पूर्ण अपौरुषेयं सर्वथा कल्याणकरम् | तज्ज्ञा- नस्य कलेवरं वेदभाषा देवभाषा वा वेदे, लोके च संस्कृतम् । वेदभाषातः विश्वस्य सर्वाः भाषा उत्पन्नाः यथा लौकिकसंस्कृतं अपि । अद्य प्रायः सर्वे प्राच्याः पाश्चात्याः विद्वांसः अस्मिन् विषये एकमताः सन्ति । संस्कृत विषये अहं कतिपय विदुषां मतानि ददामि येन तस्य महत्त्वं सुस्पष्टं स्यात् तथा इदं अपि यत् वेदभाषातः सर्वाः भाषा: निस्सृताः- - नेतॄणां विदुषां च मताने । - (१) माननीय श्री जवाहरलालनेहरू, भारतप्रधान मन्त्रिणः- वदन्ति -: -