पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५२) अध्याय: ५ विसर्गादर्शनम् । ( भविष्यवाणी ) - व्याख्या - लोके विसर्गस्य अदर्शनं स्यात् । अस्मिन् विषये अस्माकं निश्चितं मतं अस्ति यत् व्याकरणानुसारं विसर्गस्य प्राप्तिः तु भवेत् परं सूत्रवलेन लोपः मन्येत । अधिकारसूत्रं इदम् । सर्वत्र सर्वासु दशासु एव, अस्य सूत्रस्य अधिकारः तिष्ठेत् । अनेन अयं लाभः भविष्यति यत् संस्कृतं सर्वकालपर्यन्तं स्थास्यति । " संस्कृतम् " पत्रस्य शब्देपु- यावत् भारतवर्षं स्यात् यावत् विन्ध्यहिमाचलौ । यावत् गङ्गा च गोदा च तावत् एव हि संस्कृतम् ॥ पूर्व स्थाने स्थाने तथा वारं वारं निवेदितं अस्माभिः यत् प्रच "लितरूपे संस्कृतं स्थातुं न शक्नोति । संस्कृतं 'मृतप्रायं' इति कथ्यते 'जनैः । शनैः शनैः तस्य लोपः भवति । वयं कामयामहे ईश्वर प्रार्थयामहे यत् इदं माभूत्, परं एकं दिनं ईदृशं भवितुं अर्हति यत् संस्कृतभाषायाः आत्यन्तिकः ह्रासः स्यात् । अस्यां दशायां लोकस्य महती हानिः सम्पत्स्यते । संस्कृत साहित्ये, तस्य अध्यात्म- वादे सर्वोपरि स्वतः प्रमाणवेदज्ञानविज्ञाने यत् यत् विद्यते, तेन एव विश्वत्राणं भवितुं अर्हति, तेन एव चिरसौख्यं, परां शान्ति विश्वे अस्मिन् भातुं अर्हति । अस्माकं तु निश्चितं मतं अस्ति यत् संस्कृतसाहित्यनाशे विशेषतया वेदशाननाशे लोकनाशः अव- श्यम्भावी |