पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१५१) अहं तु अत्र महाविदुषः पं. सभापति उपाध्याय, अध्यक्ष विरलासंस्कृत महाविद्यालय, काशी, महोदयस्य कथनस्य अक्ष रशः समर्थतं करोमि । अस्य पुस्तकस्य प्रथमाध्याये तस्य महो- दयस्य मतं दत्तं अस्ति । स कथयतित “......बहुव्रीहिसमासः एवमेव द्वन्द्वसमासः अधिकादधिकं द्वित्रिशब्दनां भवेत् । " एवमेव महाविदुषः पं. श्रीपाद दामोदर मातवलेकर, अध्यक्ष, स्वाध्यायमण्डल, महोदयस्य कथनस्य समर्थनं क्रियते अस्माभिः । स विद्वान् स्वपक्षे यस्य उद्धरणं अस्य पुस्तकस्य प्रथमाध्याये दत्तं अस्ति कथयति । समासविषये " पदच्छेदपूर्वकं लेखने" न काठिम्यं भविष्यति । यथा-- 'पर्वत शिखर - स्थित कुसुम-संचयः' इति तु स्पष्टतरं भवति लेखनम् । द्वित्रिपदयुक्ताः समासाः भवेयुः तदधिकपदयुताः निषेद्धव्याः सारल्येच्छुभिः । ईदृशैः अन्यैः महाविद्वद्भिः अस्माकं मतस्य समर्थनं क्रियते । अत एव वयं सानुरोघं निवेदयामः यत् समासविषये पूर्वोक्तानि सर्वाणि संशोधनानि आवश्यकानि । अनेन संस्कृतभाषायां वर्णनातीत सारल्य आगमिष्यात, येन संस्कृतं पञ्चवर्षेषु भूय. जनभाषा भूत्वा भारतस्य राष्ट्रभाषा भविष्यति, तथा पञ्चविंशति- वर्षेषु विश्वभाषा पूर्ववत् । एषमस्तु । - -